aSTakam
narmadāṣṭakam
नर्मदाष्टकम्
Verse
सबिन्दुसिन्धुसुस्खलत्तरंगभंगरञ्जितम् द्विषत्सु पापजातजातकारिवारिसंयुतं । कृतान्तदूतकालभूतभीतिहारिवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥१॥
Verse
त्वदंबुलीनदीनमीनदिव्यसंप्रदायकं कलौमलौघभारहारिसर्वतीर्थनायकम् । सुमच्छकच्छनक्रचक्रवाकचक्रशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥२॥
Verse
महागभीरनीरपूरपातधूतभूतलं ध्वनत्समस्तपातकारिदारितापदाचलम् । जगल्लये महाभये मृकण्डुसूनुहर्म्यदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥३॥
Verse
गतं तदैव मे भयं त्वदंबु वीक्षितं यदा मृकण्डुसूनुशौनकासुरारिसेवितं सदा । पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥४॥
Verse
अलक्ष्यलक्षकिन्नरामरासुरादिपूजितं सुलक्षनीरतीरधीरपक्षिलक्षकूजितम् । वसिष्ठशिष्टपिप्पलादिकर्दमादि शर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥५॥
Verse
सनत्कुमारनाचिकेतकश्यपात्रिषट्पदै र्धृतं स्वकीयमानसेषु नारदादिषट्पदैः । रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥६॥
Verse
अलक्षलक्षलक्षपापलक्षसारसायुधं ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकं । विरिञ्चिविष्णुशंकरस्वकीयधामवर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥७॥
Verse
अहोऽमृतं स्वनं श्रुतं महेशिकेशजातटे किरातसूतवाडबेषु पण्डिते शठे नटे । दुरन्तपापतापहारि सर्वजन्तुशर्मदे त्वदीयपादपङ्कजं नमामि देवि नर्मदे ॥८॥
Verse
इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा । सुलभ्यदेहदुर्लभं महेशधामगौरवं पुनर्भवा नरा न वै विलोकयन्ति रौरवम् ॥९॥
