Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

gaṇeśapurāṇāṃtargataṃ

गणेशपुराणांतर्गतं

Verse

यतोऽनंतशक्तेरनंताश्च जीवाः यतो निर्गुणादप्रमेया गुणास्ते । यतो भाति सर्वं त्रिधाभेदभिन्नं सदा तं गणेशं नमामो भजामः ॥१॥

Verse

यतश्चाविरासीज्जगत्सर्वमेतत् तथाब्जासनो विश्वगो विश्वगोप्ता । तथेन्द्रादयो देवसंघा मनुष्याः सदा तं गणेशं नमामो भजामः ॥२॥

Verse

यतो वह्निभानूभवोभूर्जलं च यतस्सागराश्चन्द्रमा व्योमवायुः । यतः स्थावरा जंगमा वृक्षसंघाः सदा तं गणेशं नमामो भजामः ॥३॥

Verse

यतो दानवाः किन्नरा यक्षसंघाः यतश्चारणा वारणाः श्वापदाश्च । यतः पक्षिकीटाः यतो वीरुधश्च सदा तं गणेशं नमामो भजामः ॥४॥

Verse

यतो बुद्धिरज्ञाननाशो मुमुक्षो: यतस्संपदो भक्तसंतोषिकाः स्युः । यतो विघ्ननाशो यतः कार्यसिद्धिः सदा तं गणेशं नमामो भजामः ॥५॥

Verse

यतो पुत्रसंपद्यतो वांछितार्थो यतोऽभक्तविघ्नास्तथानेकरूपाः । यतः शोकमोहौ यतः काम एवं सदा तं गणेशं नमामो भजामः ॥६॥

Verse

यतोऽनंतशक्तिः स शेषो बभूव धराधारणेऽनेकरूपे च शक्तः । यतोऽनेकधा स्वर्गलोकाहि नानाः सदा तं गणेशं नमामो भजामः ॥७॥

Verse

यतो वेदवाचो विकुण्ठा मनोभिः सदा नेति नेतीति यत्ता गृणन्ति । परब्रह्मरूपं चिदानन्दभूतं सदा तं गणेशं नमामो भजामः ॥८॥

Verse

पुनरूचे गणाधीशः स्तोत्रमेतत्पठेन्नरः । त्रिसन्ध्यं त्रिदिनं तस्य सर्वं कार्यं भविष्यति ॥९॥

Verse

यो जपेदष्टदिवसं श्लोकाष्टकमिदं शुभम् । अष्टवारं चतुर्थ्यां तु सोऽष्टसिद्धीरवाप्नुयात् ॥१०॥

Verse

यः पठेन्मासमात्रन्तु दशवारं दिने दिने । स मोचयेद्बंधगतं राजवध्यं न संशयः ॥११॥

Verse

विद्याकामो लभेद्विद्यां पुत्रार्थी पुत्रमाप्नुयात् । वांछितांल्लभते सर्वानेकविंशतिवारतः ॥१२॥

Verse

यो जपेत्परयाभक्त्या गजाननपरोनरः । एवमुक्त्वा ततो देवश्चान्तर्धानं गतो प्रभुः ॥१३॥

narmadāṣṭakam
kāmākṣyaṣṭakam

Read next

More on गणेशपुराणांतर्गतं

  • श्रीगणेशाष्टकम् (गणेशपुराणांतर्गतं)Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms