Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

kāmākṣyaṣṭakam

कामाक्ष्यष्टकम्

Verse

श्रीकाञ्चीपुरवासिनीं भगवतीं श्रीचक्रमध्ये स्थितां कल्याणीं कमनीय चारु मकुटां कौसुम्भवस्त्रान्विताम् । श्री वाणीशचिपूजिताङ्घ्रियुगलां चारुस्मितां सुप्रभां कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥१॥

Verse

मालामौक्तिककन्धरां शशिमुखीं शम्भुप्रियां सुन्दरीं शर्वाणीं शरचापमण्डितकरां शीतांशुबिम्बाननाम् । वीणागानविनोदकेलिरसिकां विद्युत्प्रभाभासुरां कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥२॥

Verse

श्यामां चारुनितम्बिनीं गुरुभुजां चन्द्रावतंसां शिवां शर्वालिन्ङ्गित नीलचारुवपुषीं शान्तां प्रवालाधराम् । बालां बालतमालकान्तिरुचिरां बालार्कबिम्बोज्ज्वलाम् कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥३॥

Verse

लीलाकल्पितजीवकोटिनिवहां चिद्रूपिणीं शंकरीं ब्रह्माणीं भवरोगतापशमनीं भव्यात्मिकां शाश्वतीम् । देवीं माधवसोदरीं शुभकरीं पञ्चाक्षरीं पावनीं कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥४॥

Verse

वामां वारिजलोचनां हरिहरब्रह्मेन्द्रसंपूजितां कारुण्यामृतवर्षिणीं गुणमयीं कात्यायनीं चिन्मयीम् । देवीं शुम्भनिषूदिनीं भगवतीं कामेश्वरीं देवतां कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥५॥

Verse

कान्तां काञ्चनरत्नभूषितगलां सौभाग्यमुक्तिप्रदां कौमारीं त्रिपुरान्तकप्रणयिनीं कादम्बिनीं चण्डिकाम् । देवीं शंकरहृत्सरोजनिलयां सर्वाघहन्त्रीं शुभां कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥६॥

Verse

शान्तां चन्ञ्चलचारुनेत्रयुगलां शैलेन्द्रकन्यां शिवां वाराहीं दनुजान्तकीं त्रिनयनीं सर्वात्मिकां माधवीम् । सौम्यां सिन्धुसुतां सरोजवदनां वाग्देवतामम्बिकां कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥७॥

Verse

चन्द्रार्कानललोचनां गुरुकुचां सौन्दर्यचन्द्रोदयां विद्यां विन्ध्यनिवासिनीं पुरहरप्राणप्रियां सुन्दरीम् । मुग्द्धस्मेरसमीक्षणेन सततं सम्मोहयन्तीं शिवाम् कामाक्षीं करुणामयीं भगवतीं वन्दे परां देवताम् ॥८॥

gaṇeśapurāṇāṃtargataṃ
skandapurāṇāntargatam

Read next

More on कामाक्ष्यष्टकम्

  • कामाक्ष्यष्टकम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms