Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

skandapurāṇāntargatam

स्कन्दपुराणान्तर्गतम्

Verse

वन्देऽहं शीतलां देवीं रासभस्थां दिगंबराम् । मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम् ॥१॥

Verse

वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् । यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥२॥

Verse

शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः । विस्फोटकभयं घोरं क्षिप्रं तस्य प्रणश्यति ॥३॥

Verse

यस्त्वामुदकमध्येतु ध्यात्वा संपूजयेन्नरः । विस्फोटकभयं घोरं गृहे तस्य न जायते ॥४॥

Verse

शीतले ज्वरदग्धस्य पूतिगन्धयुतस्य च । प्रणष्टचक्षुषः पुंसः त्वामाहुर्जीवनौषधम् ॥५॥

Verse

शीतले तनुजान् रोगान् नृणां हरसि दुस्त्यजान् । विस्फोटकविदीर्णानां त्वमेकामृतवर्षिणी ॥६॥

Verse

गलगण्डग्रहा रोगाः येचान्ये दारुणा नृणाम् । त्वदनुध्यानमात्रेण शीतले यान्ति संक्षयम् ॥७॥

Verse

न मन्त्रो नौषधं तस्य पापरोगस्य विद्यते । त्वामेकां शीतले धात्रीं नान्यां पश्यामि देवताम् ॥८॥

Verse

मृणालतन्तुसदृशीं नाभिहृन्मध्यसंस्थिताम् । यस्त्वां संचिन्तयेत् देवि तस्य मृत्युर्न जायते ॥९॥

Verse

अष्टकं शीतला देव्याः यो नरः प्रपठेत् सदा । विस्फोटकभयं घोरं गृहे तस्य न जायते ॥१०॥

Verse

श्रोतव्यं पठितव्यं च श्रद्धाभक्तिसमन्वितैः । उपसर्गविनाशाय परं स्वस्त्ययनं महत् ॥११॥

Verse

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता । शीतले त्वं जगद्धात्री शीतलायै नमोनमः ॥१२॥

Verse

रासभो गर्दभश्चैव खरो वैशाखनन्दनः । शीतलावाहनश्चैव दूर्वाकन्दनिकृन्तनः ॥१३॥

Verse

एतानि खरनामानि शीतलाग्रे तु यः पठेत् । तस्य गेहे शिशूनां च शीतला रुङ् न जायते ॥१४॥

Verse

शीतलाष्टकमेवेदं न देयं यस्य कस्यचित् । दातव्यं च सदा तस्मै श्रद्धाभक्तियुताय वै ॥१५॥

kāmākṣyaṣṭakam
śrīrājarājeśvaryaṣṭakam

Read next

More on स्कन्दपुराणान्तर्गतम्

  • अगस्त्यकृतं, स्कन्दपुराणान्तर्गतम्Ashtakam
  • श्री अंगारकस्तोत्रम् (स्कान्दपुराणान्तर्गतम्)Sahasranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms