aSTakam
agastyakṛtaṃ, skandapurāṇāntargatam
अगस्त्यकृतं, स्कन्दपुराणान्तर्गतम्
Verse
नमॊऽस्तु बृन्दारकबृन्दवन्द्य- पादारविन्दायसुधाकराय । षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय ॥१॥
Verse
नमॊऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनॊरथानाम् । दात्रे रतानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य ॥२॥
Verse
अमूर्तमूर्तायसहस्रमूर्तये गुणायगुण्यायपरात्पराय । अपारपाराय परात्पराय नमॊऽस्तु तुभ्यं शिखिवाहनाय ॥३॥
Verse
नमॊऽस्तु ते ब्रह्मविदांवराय दिगंबरायाम्बरसंस्थिताय । हिरण्यवर्णाय हिरण्यबाहवे नमॊ हिरण्याय हिरण्यरेतसे ॥४॥
Verse
तपःस्वरूपाय तपॊधनाय तपः फलानां प्रतिपादकाय । सदा कुमाराय हिमारमारिणॆ तृणीकृतैश्वर्यविरागिणॆ नमः ॥५॥
Verse
नमॊऽस्तु तुभ्यं शरजन्मने विभॊ प्रभातसूर्यारुण दन्तपङ्क्तये । बालाय चाबालपराक्रमाय षण्मातुराबालमनातुराय ॥६॥
Verse
मीढुष्टमायोत्तरमीढुषॆ नमॊ नमॊ गणानांपतये गणाय । नमॊऽस्तु ते जन्मजरातिगाय नमॊ विशाखाय सुशक्तिपाणये ॥७॥
Verse
सर्वस्यनाथस्य कुमारकाय क्रौञ्चारये तारकमारकाय । स्वाहेय गांगेय च कार्तिकेय शैलेय तुभ्यं सततं नमॊऽस्तु ॥८॥
