aSTakam
śrīsubrahmaṇyāṣṭakam
श्रीसुब्रह्मण्याष्टकम्
Verse
हे स्वामिनाथ करुणाकर दीनबन्धॊ श्रीपार्वतीशमुखपङ्कजपद्मबन्धॊ । श्रीशादिदेवगणपूजितपादपद्म वल्लीश नाथ मम देहि करावलम्बम् ॥१॥
Verse
देवादिदेवसुत देवगणाधिनाथ देवेन्द्रवन्द्यमृदुपङ्कजमञ्जुपाद । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते वल्लीश नाथ मम देहि करावलम्बम् ॥२॥
Verse
नित्यान्नदाननिरताखिलरोगहारिन् भाग्यप्रदानपरिपूरितभक्तकाम । श्रुत्यागमप्रणववाच्यनिजस्वरूप वल्लीश नाथ मम देहि करावलम्बम् ॥३॥
Verse
क्रौञ्चासुरेन्द्रपरिखण्डनशक्तिशूल चापादिशस्त्रपरिमण्डितदिव्यपाणॆ । श्रीकुण्डलीशधृततुण्डशिखीन्द्रवाह वल्लीश नाथ मम देहि करावलम्बम् ॥४॥
Verse
देवादिदेवरथमण्डलमध्यमेत्य देवेन्द्रपीठनगरं धृतचापहस्त । शूरं निहत्य सुरकोटिभिरीड्यमान वल्लीश नाथ मम देहि करावलम्बम् ॥५॥
Verse
हीरादिरत्नवरयुक्तकिरीटहार केयूरकुण्डललसत् कवचाभिराम । हे वीर तारकजयामरबृन्दवन्द्य वल्लीश नाथ मम देहि करावलम्बम् ॥६॥
Verse
पञ्चाक्षरादिमुनिमन्त्रितगांगतॊयैः पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः । पट्टाभिषिक्त मघवत्तनयासनाथ वल्लीश नाथ मम देहि करावलम्बम् ॥७॥
Verse
श्रीकार्तिकेयकरुणामृतपूर्णदृष्ट्या कामादिरोगकलुषीकृतदुष्टचित्तं ॥
Verse
सिक्त्वा तु मामव कलानिधिकोटिकान्त वल्लीश नाथ मम देहि करावलम्बम् ॥८॥
Verse
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजॊत्तमाः । ते सर्वे मुक्तिमायान्ति सुब्रह्मण्यप्रभावतः ॥९॥
Verse
सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत । कोटिजन्मकृतं पापं तत्क्षणात् तस्य नश्यति ॥१०॥
