Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

sahasranAma

śrī aṃgārakastotram (skāndapurāṇāntargatam)

श्री अंगारकस्तोत्रम् (स्कान्दपुराणान्तर्गतम्)

Verse

अंगारकः शक्तिधरो लोहितांगो धरासुतः । कुमारो मंगलो भौमो महाकायो धनप्रदः ॥१॥

Verse

ऋणहर्ता दृष्टिकर्ता रोगकृत् रोगनाशनः । विद्युत्प्रभो व्रणकरः कामदो धनहृत् कुजः ॥२॥

Verse

सामगानप्रियो रक्तवस्त्रो रक्तायतेक्षणः । लोहितो रक्तवर्णश्च सर्वकर्मावबोधकः ॥३॥

Verse

रक्तमाल्यधरो हेमकुण्डली ग्रहनायकः । नामान्येतानि भौमस्य यः पठेत् सततं नरः ॥४॥

Verse

ऋणं तस्य च दौर्भाग्यं दारिद्र्यं च विनश्यति । धनं प्राप्नोति विपुलं स्त्रियं चैव मनोरमाम् ॥५॥

Verse

वंशोद्योतकरं पुत्रं लभते नात्र संशयः । योऽर्चयेदह्नि भौमस्य मङ्गलं बहुपुष्पकैः । सर्वं नश्यति पीडा च तस्य ग्रहकृता ध्रुवम् ॥६॥

śrī gaṇapativedapādastavaḥ
gaṇeśaprātaḥsmaraṇam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms