sahasranAma
śrī gaṇapativedapādastavaḥ
श्री गणपतिवेदपादस्तवः
Verse
श्रीकण्ठतनय श्रीश श्रीकर श्रीजलार्चित श्री विनायक सर्वेश श्रियं वासय मे कुले ॥१॥
Verse
गजानन गणाधीश द्विजराजविभूषित । भजे त्वां सच्चिदानन्द ब्रह्मणां ब्रह्मणस्पते ॥२॥
Verse
गणाधीशाय नमते ऋणाटविकुठारिणे । घृणापालितलोकाय वनानां पतये नमः ॥३॥
Verse
धीप्रदाय नमस्तुभ्यं ईप्सितार्थप्रदायिने । दीप्तभूषणभूषाय दिशां च पतये नमः ॥४॥
Verse
पञ्चब्रह्मस्वरूपाय पञ्चपातकहारिणे । पञ्चतत्त्वात्मने तुभ्यं पशूनां पतये नमः ॥५॥
Verse
तटित्कोटिप्रतीकाश तनवे विश्वसाक्षिणे । तपःस्वाध्यायिने तुभ्यं सेनानिभ्यश्च वो नमः ॥६॥
Verse
एकाक्षरस्वरूपाय एकदन्ताय वेधसे । नैकरूपाय महते मुष्णतां पतये नमः ॥७॥
Verse
नगजावरपुत्राय खगराजार्चिताय च । सुगुणाय नमस्तुभ्यं सुमृडीकाय मीढुषे ॥८॥
Verse
महापातकसंघातैः महाऋणभयात्सदा । त्वदीयकृपया देव सर्वानव यजामहे ॥९॥
Verse
नवरत्नमयींमालां नवाक्षरसमन्वितां भक्त्या पठन्ति ये नित्यं तेषां तुष्येत्गणाधिपः ॥१०॥
