aSTakam
kaivalyāṣṭakam
कैवल्याष्टकम्
Verse
मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलम् । पावनं पावनेभ्योऽपि हरेर्नामैव केवलम् ॥१॥
Verse
आब्रह्मस्तंबपर्यन्तं सर्वं मायामयं जगत् । सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥२॥
Verse
स गुरुः स पिता चापि सा माता बन्धवोऽपि सः । शिक्षयेच्चेत् सदा स्मर्तुं हरेर्नामैव केवलम् ॥३॥
Verse
निःश्वासे न हि विश्वासः कदा रुद्धो भविष्यति । कीर्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ॥४॥
Verse
हरिस्सदा वसेत्तत्र यत्र भागवता जनाः । गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ॥५॥
Verse
अहो दुःखं महादुःखं दुःखाद्दुःखतरं यथा काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥६॥
Verse
दीयतां दीयतां कर्णो नीयतां नीयतां वचः । गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ॥७॥
Verse
तृणीकृत्य जगत्सर्वं राजते सकलोपरि । चिदानन्दमयं नित्यं हरेर्नामैव केवलम् ॥८॥
