aSTakam
brahmānandaviracitam
ब्रह्मानन्दविरचितम्
Verse
कदा पक्षीन्द्रांसोपरिगतमजं कञ्जनयनं रमासंश्लिष्टांगं गगनरुचमापीतवसनम् । गदाशंखांभोजारिवरकरमालोक्य सुचिरं गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥१॥
Verse
कदा क्षीराब्ध्यन्तः सुरतरुवनान्तर्मणिमये समासीनं पीठे जलधितनयालिङ्गिततनुम् । स्तुतं देवैर्नित्यं मुनिवरकदंबैरभिनुतं स्तवैः संस्तोष्यामि श्रुतिवचनगर्भैर्सुरगुरुम् ॥२॥
Verse
कदा मामाभीतं भवजलधितस्तापसतनुं गतारागं गंगातटगिरिगुहावाससदनम् । लपन्तं हे विष्णो सुरवर रमेशेति सततं समभ्येत्योदारं कमलनयनो वक्ष्यति वचः ॥३॥
Verse
कदा मे हृत्पद्मे भ्रमर इव पद्मे प्रतिवसन् सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ । स्फुरज्ज्योतीरूपो रविरिव रमासेव्यचरणो हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम् ॥४॥
Verse
कदामे भोगाशा निबिडभवपाशादुपरतं तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम् । मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं स्थितिं स्थाणुप्रायां भवभयहरां यास्यति वराम् ॥५॥
Verse
कदामे संरुद्धाखिलकरणजालस्य परितो जिताशेषप्राणानिलपरिकरस्य प्रजपतः । सदोङ्कारं चित्तंहरिपदसारोजे धृतवतः समेष्यत्युल्लासं मुहुरखिलरोमावलिरियम् ॥६॥
Verse
कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः शरीरे चाक्षौघेप्युपरतवति प्राणपवने । वदत्यूर्ध्वं शश्वन्मम वदनकुञ्जे मुहुरहो करिष्यत्यावासं हरिरिति पदं पावनतमम् ॥७॥
Verse
कदा हित्वा जीर्णां त्वचमिव भुजंगस्तनुमिमां चतुर्बाहुश्चक्रांबुजदरकरः पीतवसनः घनश्यामो दूतैर्गगनगतिनीतो नतिवरै- र्गमिष्यामीशस्यान्तिकमखिलदुःखान्तकमिति ॥८॥
