aSTakam
rogahara śrīguruvātapurādhipāṣṭakam
रोगहर श्रीगुरुवातपुराधिपाष्टकम्
Verse
गुरुपुरमन्दिर गोकुलसुन्दर गोपपुरन्दर गोपतनो गुणगणसागर भक्तशिवंकर कौस्तुभकन्धर केलितनो । गणपतिहोमजधूमसुवासितगव्यपयोर्पणतुष्टमते जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥१॥
Verse
मुरहर माधव मङ्गलसंभव मान्यसुवैभव रम्यतनो मधुरिपुसूदन मातृसुपूजन मंगलवादन मोदमते । मधुमयभाषण चोद्धववन्दन तातसुपूजन तृप्तमते जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥२॥
Verse
प्रतिदिनमादरपूर्वदिनार्चितमाल्यविसर्जनदत्ततनो प्रतिदिनमर्पिततैलसुषेवणनाशितदुस्सहरोगरिपो । प्रतिदिनमद्भुतचन्दनचर्चित चंपककल्पितमाल्यतते जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥३॥
Verse
करिवरकल्पितकञ्जसुमोत्तम कम्रकरांबुज लोकगुरो भयततिमोचक भाग्यविधायक पुण्यसुपूरक मुग्धतनो । शिवजलमज्जनदर्शनवन्दनकीर्तनसंस्तुतभक्ततते जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥४॥
Verse
करजितपंकज कोटिरविप्रभकोमलकल्पितवेष हरे रविशतसन्निभ रत्नविनिर्मितरम्यकिरीट मनोज्ञ हरे मुनिवर मुद्गलवंशसुरक्षण दीक्षित रक्षितपार्थ हरे जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥५॥
Verse
भवभयनाशक भोगविवर्धक भक्तजनस्तुतिमग्नमते यदुकुलनन्दन मंगलकारण शत्रुनिवारणदीक्षमते । गजपतिसंश्रयवाद्यसुघोषण नामसुकीर्तन हृष्टमते जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥६॥
Verse
विधिहरनारदतुंबुरुसद्गुरुवायुमुखामरपूज्य हरे कलियुगसंभव कल्मषनाशक काम्यफलप्रद मोक्षपते । कविवरभट्टतिरिस्तुतिकंपित मस्तकदर्शित दिव्यतनो जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥७॥
Verse
चरणयुगागतभक्तजनार्पितदेहतुलाभरतुष्टमते तवचरणांबुज मानसपून्दन दर्शितदिव्यगृहाधिपते विषभयरक्षितपाण्ड्यनरेश्वर कल्पितमन्दिर वैद्यपते जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥८॥
Verse
शिवदमनन्तपदान्वितरामसुदीक्षित सत्कवि पद्यमिदं ।
Verse
गुरुपवनाधिपतुष्टिदमुत्तममिष्टसुसिद्धिदमार्तिहरम् । पठति शृणोति च भक्तियुतो यदि भाग्यसमृद्धिमथो लभते जय जय हे गुरुवातपुराधिप रोगमशेषमपाकुरु मे ॥९॥
Verse
तत्त्वमसि निस्तमसि नीरजसि निर्गलितसत्वे तेजसि विवेकजुषि भेदमतिशून्ये । निर्वचनमानसपदातिगमचिन्त्यं तत्वमसि तत्वमसि तत्वमसि राजन् ॥
Verse
यज्जनितमेतदखिलं जगदनित्यं स्वप्नजगदभ्रगज वारिवनतुल्यं । अप्रमित मूर्तिरहितं परसुखं यत् तत्वमसि तत्वमसि तत्वमसि राजन् ॥
Verse
देहगुणजालमपि लीलमतिलोलं येन लसितं भवति धीपुरशतञ्च अद्वयमनन्तकमपारमतिसूक्ष्मं तत्वमसि तत्वमसि तत्वमसि राजन् ॥
Verse
कोशमयपञ्चकमिदञ्च सविकारं यत्र वियदादि विमलस्फुरितमेतत् अस्ति न कदाचिदपि रज्जुवदनन्तं तत्वमसि तत्वमसि तत्वमसि राजन् भेदमतिजातमवधूतमनुभूतं येन विदितं ततं परात्परसुखं च । तद्भवति सोहमिति यच्छ्रुतिषु चोक्तं तत्वमसि तत्वमसि तत्वमसि राजन ॥
