Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

vārāhīnigrahāṣṭakam

वाराहीनिग्रहाष्टकम्

Verse

देवि! क्रोडमुखि त्वदंघ्रिकमलद्वन्द्वानुरक्तात्मने मह्यं द्रुह्यति यो महेशि मनसा कायेन वाचा नरः । तस्याशु त्वदयोग्रनिष्ठुरहलाघातप्रभूतव्यथा- पर्यस्यन्मनसो भवन्तु वपुषः प्राणाः प्रयाणोन्मुखाः ॥१॥

Verse

देवि त्वत्पदपद्मभक्तिविभवप्रक्षीणदुष्कर्मणि प्रादुर्भूतनृशंसभावमलिनां वृत्तिं विधत्ते मयि । यो देही भुवने तदीयहृदयान्निर्गत्वरैर्लोहितैः सद्यः पूरयसे कराब्जचषकं वाञ्छाफलैर्मामपि ॥२॥

Verse

चण्डोत्तुण्डविदीर्णदुष्टहृदयप्रोद्भिन्नरक्तछ्टा- हालापानमदाट्टहासनिनदाटोपप्रतापोत्कटम् । मातर्मत्परिपन्थिनामपहृतैः प्राणैस्त्वदंघ्रिद्वयं ध्यानोड्डामरवैभवोदयवशात् संतर्पयामि क्षणात् ॥३॥

Verse

श्यामां तामरसाननांघ्रिनयनां सोमार्धचूडां जग- त्त्राणव्यग्रहलायुधाग्रमुसलां सन्त्रासमुद्रावतीम् । ये त्वां रक्तकपालिनीं हरवरारोहे वराहाननां भावैः सन्दधते कथं क्षणमपि प्राणन्ति तेषां द्विषः ॥४॥

Verse

विश्वाधीश्वरवल्लभे विजयसे या त्वं नियन्त्रात्मिका भूतानां पुरुषायुषावधिकरी पाकप्रदाकर्मणां । त्वां याचे भवतीं किमप्यवितथं को मद्विरोधीजन- स्तस्यायुर्ममवाञ्छितावधिभवेन्मातस्तवैवाज्ञया ॥५॥

Verse

मातःसम्यगुपासितुं जडमतिस्त्वां नैवशक्नोम्यहं यद्यप्यन्वितदैशिकांघ्रिकमलानुक्रोशपात्रस्य मे । जन्तुः कश्चन चिन्तयत्यकुशलं यस्तस्य तद्वैशसं भूयाद्देवि विरोधिनो मम च ते श्रेयः पदासंगिनः ॥६॥

Verse

वाराही व्यथमानमानसगलत्सौख्यं तदाशाबलिं सीदन्तं यमप्राकृताध्यवसितं प्राप्ताखिलोत्पादितम् । क्रन्दत्बन्धुजनैः कलङ्कितकुलं कण्ठव्रणोद्यत्कृमिं पश्यामि प्रतिपक्षमाशु पतितं भ्रान्तं लुठन्तं मुहुः ॥७॥

Verse

वाराही त्वमशेषजन्तुषु पुनः प्राणात्मिका स्पन्दसे शक्तिव्याप्तचराचरा खलु यतस्त्वामेतदभ्यर्थये । त्वत्पादांबुजसंगिनो मम सकृत्पापं चिकीर्षन्ति ये तेषां मा कुरु शंकरप्रियतमे! देहान्तरावस्थितिम् ॥८॥

vārāhyanugrahāṣṭakam
kaivalyāṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms