Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

vārāhyanugrahāṣṭakam

वाराह्यनुग्रहाष्टकम्

Verse

मातर्ज्जगद्रचननाटकसूत्रधारः सद्रूपमाकलयितुं परमार्थतो यम् । ईशोप्यनीश्वरपदं समुपैति तादृक् कोऽन्यः स्तवं किमिव तावकमादधातु ॥१॥

Verse

नामानि किन्तु गृणतस्तवलोकतुण्डे नाडंबरं स्पृशति दण्डधरस्य दण्डः । तल्लेशलङ्घितभवांबुनिधी यतोऽयं त्वन्नामसंस्मृतिरियं न पुनः स्तुतिस्ते ॥२॥

Verse

त्वच्चिन्तनादरसमुल्लसदप्रमेया- नन्दोदयात् समुदितस्फुटरोमहर्षः । मातर्नमामि सुदिनानि सदेत्यमुं त्वा- मभ्यर्थयेर्थमिति पूरयताद्दयालो ॥३॥

Verse

इन्द्रेन्दुमौलिविधिकेशवमौलिरत्न- रोचिश्चयोज्ज्वलितपादसरोजयुग्मे । चेतोनतौ मम सदा प्रतिबिंबिता त्वं भूयो भवानि भवनाशिनि भावये त्वां ॥४॥

Verse

लीलोद्धृतक्षितितलस्य वराहमूर्ते- र्वाराहमूर्तिरखिलार्थकरी त्वमेव । प्रालेयरश्मिसुकलोल्लसितावतंसा त्वं देवि वामतनुभागहरा हरस्य ॥५॥

Verse

त्वामंब तप्तकनकोज्ज्वलकान्तिमन्त- र्ये चिन्तयन्ति युवतीतनुमं गलान्तां । चक्रायुधां त्रिनयनां वरपोत्रिवक्त्रां तेषां पदांबुजयुगं प्रणमन्ति देवाः ॥६॥

Verse

त्वत्सेवनस्खलितपापचयस्य मात- र्मोक्षोऽपि यस्य न सतो गणनामुपैति । देवासुरोरगनृपूजितपादपीठ: कस्याः श्रियः स खलु भाजनतां न धत्ते ॥७॥

Verse

किं दुष्करं त्वयि मनोविषयं गतायां किं दुर्लभं त्वयि विधानुवदर्चितायाम् । किं दुर्भरं त्वयि सकृत्स्मृतिमागतायां किं दुर्ज्जयं त्वयि कृतस्तुतिवादपुंसाम् ॥८॥

tārāṣṭakam
vārāhīnigrahāṣṭakam

Read next

More on वाराह्यनुग्रहाष्टकम्

  • वराहमुखीस्तवः तथा वाराह्यनुग्रहाष्टकम्Ashtakam
  • वाराह्यनुग्रहाष्टकम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms