stotrasangraha
toṭakāṣṭakam
तोटकाष्टकम्
Verse
शङ्करं शङ्कराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥
Verse
नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् । श्री-शङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यं तं तोटकं वार्तिककारमन्यानस्मद्गुरून् सन्ततमानतोऽस्मि ॥
Verse
विदिताखिल-शास्त्र-सुधा-जलधे महितोपनिषत्-कथितार्थ-निधे । हृदये कलये विमलं चरणं भव शङ्कर देशिक मे शरणम् ॥१॥
Verse
करुणा-वरुणालय पालय मां भव-सागर-दुःख-विदून-हृदम् । रचयाखिल-दर्शन-तत्त्व-विदं भव शङ्कर देशिक मे शरणम् ॥२॥
Verse
भवता जनता सुहिता भविता निज-बोध-विचारण-चारु-मते । कलयेश्वर-जीव-विवेक-विदं भव शङ्कर देशिक मे शरणम् ॥३॥
Verse
भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता । मम वारय मोह-महा-जलधिं भव शङ्कर देशिक मे शरणम् ॥४॥
Verse
सुकृतेऽधिकृते बहुधा भवतो भविता सम-दर्शन-लालसता । अतिदीनमिमं परिपालय मां भव शङ्कर देशिक मे शरणम् ॥५॥
Verse
जगतीमवितुं कलिताकृतयो विचरन्ति महा-महसश्छलतः । अहिमांशुरिवात्र विभासि पुरो भव शङ्कर देशिक मे शरणम् ॥६॥
Verse
गुरु-पुङ्गव पुङ्गव-केतन ते समतामयतां न हि कोऽपि सुधीः । शरणागत-वत्सल तत्त्व-निधे भव शङ्कर देशिक मे शरणम् ॥७॥
Verse
विदिता न मया विशदैक-कला न च किञ्चन काञ्चनमस्ति गुरो । द्रुतमेव विधेहि कृपां सहजां भव शङ्कर देशिक मे शरणम् ॥८॥
Verse
॥इति श्री-तोटकाचार्यविरचितं श्री-तोटकाष्टकं सम्पूर्णम्॥
