Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

kāmākṣī suprabhātam

कामाक्षी सुप्रभातम्

Verse

जगदवन विधौ त्वं जागरूका भवानि तव तु जननि निद्रामात्मवत्कल्पयित्वा । प्रतिदिवसमहं त्वां बोधयामि प्रभाते त्वयि कृतमपराधं सर्वमेतं क्षमस्व ॥

Verse

यदि प्रभातं तव सुप्रभातं तदा प्रभातं मम सुप्रभातम् । तस्मात् प्रभाते तव सुप्रभातं वक्ष्यामि मातः कुरु सुप्रभातम् ॥

Verse

यस्याङ्घ्रिपद्म-मकरन्दनिषेवणात् त्वं जिह्वां गताऽसि वरदे मम मन्दबद्धः । यस्याम्ब नित्यमनघे हृदये विभासि तं चन्द्रशेखरगुरुं प्रणमामि नित्यम् ॥

Verse

जये जयेन्द्रो गुरुणा ग्रहीतो मठाधिपत्ये शशिशेखरेण । यथा गुरुः सर्वगुणोपपन्नो जयत्यसौ मङ्गलमातनोतु ॥

Verse

शुभं दिशतु नो देवी कामाक्षी सर्वमङ्गला शुभं दिशतु नो देवी कामकोटी-मठेशः । शुभं दिशतु तच्छिष्य-सद्गुरुर्नो जयेन्द्रो सर्वं मङ्गलमेवास्तु मङ्गलानि भवन्तु नः ॥

Verse

कामाक्षि देव्यम्ब तवाऽऽर्द्रदृष्ट्या मूकः स्वयं मूककविर्यथाऽसीत् । तथा कुरु त्वं परमेशजाये त्वत्पादमूले प्रणतं दयार्द्रे ॥१॥

Verse

उत्तिष्ठोत्तिष्ठ वरदे उत्तिष्ठ जगदीश्वरि । उत्तिष्ठ जगदाधारे त्रैलोक्यं मङ्गलं कुरु ॥२॥

Verse

शृणोषि कच्चिद् ध्वनिरुत्थितोऽयं मृदङ्गभेरीपटहानकानाम् । वेदध्वनिं शिक्षितभूसुराणां शृणोषि भद्रे कुरु सुप्रभातम् ॥३॥

Verse

शृणोषि भद्रे ननु शङ्खघोषं वैतालिकानां मधुरं च गानम् । शृणोषि मातः पिककुक्कुटानां ध्वनिं प्रभाते कुरु सुप्रभातम् ॥४॥

Verse

मातर्निरीक्ष्य वदनं भगवान् शशाङ्को लज्जान्वितः स्वयमहो निलयं प्रविष्टः । द्रष्टुं त्वदीय वदनं भगवान् दिनेशो ह्यायाति देवि सदनं कुरु सुप्रभातम् ॥५॥

Verse

पश्याम्ब केचिद् धृतपूर्णकुम्भाः केचिद् दयार्द्रे धृतपुष्पमालाः । काचित् शुभाङ्ग्यो ननुवाद्यहस्ताः तिष्ठन्ति तेषां कुरु सुप्रभातम् ॥६॥

Verse

भेरीमृदङ्गपणवानकवाद्यहस्ताः स्तोतुं महेशदयिते स्तुतिपाठकास्त्वाम् । तिष्ठन्ति देवि समयं तव काङ्क्षमाणाः ह्युत्तिष्ठ दिव्यशयनात् कुरु सुप्रभातम् ॥७॥

Verse

मातर्निरीक्ष्य वदनं भगवान् त्वदीयं नैवोत्थितः शशिधिया शयितस्तवाङ्के । सम्बोधयाऽऽशु गिरिजे विमलं प्रभातं जातं महेशदयिते कुरु सुप्रभातम् ॥८॥

Verse

अन्तश्चरन्त्यास्तव भूषणानां झल्झल्ध्वनिं नूपुरकङ्कणानाम् । श्रुत्वा प्रभाते तव दर्शनार्थी द्वारि स्थितोऽहं कुरु सुप्रभातम् ॥९॥

Verse

वाणी पुस्तकमम्बिके गिरिसुते पद्मानि पद्मासना रम्भा त्वम्बरडम्बरं गिरिसुता गङ्गा च गङ्गाजलम् । काली तालयुगं मृदङ्गयुगलं बृन्दा च नन्दा तथा नीला निर्मलदर्पण-धृतवती तासां प्रभातं शुभम् ॥१०॥

Verse

उत्थाय देवि शयनाद् भगवान् पुरारिः स्नातुं प्रयाति गिरिजे सुरलोकनद्याम् । नैको हि गन्तुमनघे रमते दयार्द्रे ह्युत्तिष्ठ देवि शयनात् कुरु सुप्रभातम् ॥११॥

Verse

पश्याम्ब केचित्फलपुष्पहस्ताः केचित् पुराणानि पठन्ति मातः । पठन्ति वेदान् बहवस्तवाऽऽरे तेषां जनानां कुरु सुप्रभातम् ॥१२॥

Verse

लावण्यशेवधिमवेक्ष्य चिरं त्वदीयं कन्दर्पदर्पदलनोऽपि वशं गतस्ते । कामारि-चुम्बित-कपोलयुगं त्वदीयं द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥१३॥

Verse

गाङ्गेयतोयममवाह्य मुनीश्वरास्त्वां गङ्गाजलैः स्नपयितुं बहवो घटांश्च । धृत्वा शिरःसु भवतीमभिकाङ्क्षमाणाः द्वारि स्थिता हि वरदे कुरु सुप्रभातम् ॥१४॥

Verse

मन्दार-कुन्द-कुसुमैरपि जातिपुष्पैः मालाकृता विरचितानि मनोहराणि । माल्यानि दिव्यपदयोरपि दातुमम्ब तिष्ठन्ति देवि मुनयः कुरु सुप्रभातम् ॥१५॥

Verse

काञ्ची-कलाप-परिरम्भनितम्बबिम्बं काश्मीर-चन्दन-विलेपित-कण्ठदेशम् । कामेश-चुम्बित-कपोलमुदारनासां द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥१६॥

Verse

मन्दस्मितं विमलचारुविशालनेत्रं कण्ठस्थलं कमलकोमलगर्भगौरम् । चक्राङ्कितं च युगलं पदयोर्मृगाक्षि द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥१७॥

Verse

मन्दस्मितं त्रिपुरनाशकरं पुरारेः कामेश्वरप्रणयकोपहरं स्मितं ते । मन्दस्मितं विपुलहासमवेक्षितुं ते मातः स्थिता वयमये कुरु सुप्रभातम् ॥१८॥

Verse

माता शिशूनां परिरक्षणार्थं न चैव निद्रावशमेति लोके । माता त्रयाणां जगतां गतिस्त्वं सदा विनिद्रा कुरु सुप्रभातम् ॥१९॥

Verse

मातर्मुरारिकमलासनवन्दिताङ्घ्र्याः हृद्यानि दिव्यमधुराणि मनोहराणि । श्रोतुं तवाम्ब वचनानि शुभप्रदानि द्वारि स्थिता वयमये कुरु सुप्रभातम् ॥२०॥

Verse

दिगम्बरो ब्रह्मकपालपाणिः विकीर्णकेशः फणिवेष्टिताङ्गः । तथाऽपि मातस्तव देविसङ्गात् महेश्वरोऽभूत् कुरु सुप्रभातम् ॥२१॥

Verse

अयि तु जननि दत्तस्तन्यपानेन देवि द्रविडशिशुरभूद्वै ज्ञानसम्पन्नमूर्तिः । द्रविडतनयभुक्तक्षीरशेषं भवानि वितरसि यदि मातः सुप्रभातं भवेन्मे ॥२२॥

Verse

जननि तव कुमारः स्तन्यपानप्रभावात् शिशुरपि तव भर्तुः कर्णमूले भवानि । प्रणवपदविशेषं बोधयामास देवि यदि मयि च कृपा ते सुप्रभातं भवेन्मे ॥२३॥

Verse

त्वं विश्वनाथस्य विशालनेत्रा हालास्यनाथस्य नु मीननेत्रा । एकाम्रनाथस्य नु कामनेत्रा कामेशजाये कुरु सुप्रभातम् ॥२४॥

Verse

श्रीचन्द्रशेखरगुरुर्भगवान् शरण्ये त्वत्पादभक्तिभरितः फलपुष्पपाणिः । एकाम्रनाथदयिते तव दर्शनार्थी तिष्ठत्ययं यतिवरो मम सुप्रभातम् ॥२५॥

Verse

एकाम्रनाथदयिते ननु कामपीठे सम्पूजिताऽसि वरदे गुरुशङ्करेण । श्रीशङ्करादिगुरुवर्य-समर्चिताङ्घ्रिं द्रष्टुं स्थिता वयमये कुरु सुप्रभातम् ॥२६॥

Verse

दुरितशमनदक्षौ मृत्युसन्तासदक्षौ चरणमुपगतानां मुक्तिदौ ज्ञानदौ तौ । अभयवरदहस्तौ द्रष्टुमम्ब स्थितोऽहं त्रिपुरदलनजाये सुप्रभातं ममाऽऽर्ये ॥२७॥

Verse

मातस्त्वदीयचरणं हरिपद्मजाद्यैः वन्द्यं रथाङ्ग-सरसीरुह-शङ्खचिह्नम् । द्रष्टुं च योगिजनमानसराजहंसं द्वारि स्थितोऽस्मि वरदे कुरु सुप्रभातम् ॥२८॥

Verse

पश्यन्तु केचिद्वदनं त्वदीयं स्तुवन्तु कल्याणगुणांस्तवान्ये । नमन्तु पादाब्जयुगं त्वदीयाः द्वारि स्थितानां कुरु सुप्रभातम् ॥२९॥

Verse

केचित् सुमेरोः शिखरेऽतितुङ्गे केचिन्मणिद्वीपवरे विशाले । पश्यन्तु केचित् त्वमृताब्धिमध्ये पश्याम्यहं त्वामिह सुप्रभातम् ॥३०॥

Verse

शम्भोर्वामाङ्कसंस्थां शशिनिभवदनां नीलपद्मायताक्षीं श्यामाङ्गां चारुहासां निबिडतरकुचां पक्वबिम्बाधरोष्ठीम् । कामाक्षीं कामदात्रीं कुटिलकचभरां भूषणैर्भूषिताङ्गीं पश्यामः सुप्रभाते प्रणतजनिमतामद्य नः सुप्रभातम् ॥३१॥

Verse

कामप्रदाकल्पतरुर्विभासि नान्या गतिर्मे ननु चातकोऽहम् । वर्षस्यमोघः कनकाम्बुधाराः काश्चित्तु धारा मयि कल्पयाऽऽशु ॥३२॥

Verse

त्रिलोचनप्रियां वन्दे वन्दे त्रिपुरसुन्दरीम् । त्रिलोकनायिकां वन्दे सुप्रभातं ममाम्बिके ॥३३॥

Verse

कामाक्षि देव्यम्ब तवाऽऽर्द्रदृष्ट्या कृतं मयेदं खलु सुप्रभातम् । सद्यः फलं मे सुखमम्ब लब्धं तथा च मे दुःखदशा गता हि ॥३४॥

Verse

ये वा प्रभाते पुरतस्तवाऽऽर्ये पठन्ति भक्त्या ननु सुप्रभातम् । शृण्वन्ति ये वा त्वयि बद्धचित्ताः तेषां प्रभातं कुरु सुप्रभातम् ॥३५॥

Verse

॥इति श्री-लक्ष्मीकान्त-शर्मा-विरचितं श्री-कामाक्षीसुप्रभातं सम्पूर्णम्॥

toṭakāṣṭakam
kāmākṣī-māhātmyam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms