Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

kāmākṣī-māhātmyam

कामाक्षी-माहात्म्यम्

Verse

स्वामिपुष्करिणीतीर्थं पूर्वसिन्धुः पिनाकिनी । शिलाह्रदश्चतुर्मध्यं यावत् तुण्डीरमण्डलम् ॥१॥

Verse

मध्ये तुण्डीरभूवृत्तं कम्पा-वेगवती-द्वयोः । तयोर्मध्यं कामकोष्ठं कामाक्षी तत्र वर्तते ॥२॥

Verse

स एव विग्रहो देव्या मूलभूतोऽद्रिराड् भुवः । नान्योऽस्ति विग्रहो देव्याः काञ्च्यां तन्मूलविग्रहः ॥३॥

Verse

जगत्कामकलाकारं नाभिस्थानं भुवः परम् । पदपद्मस्य कामाक्ष्याः महापीठमुपास्महे ॥४॥

Verse

कामकोटिः स्मृतः सोऽयं कारणादेव चिन्नभः । यत्र कामकृतो धर्मो जन्तुना येन केन वा । सकृद् वाऽपि सुधर्माणां फलं फलति कोटिशः ॥५॥

Verse

यो जपेत् कामकोष्ठेऽस्मिन् मन्त्रमिष्टार्थदैवतम् । कोटिवर्णफलेनैव मुक्तिलोकं स गच्छति ॥६॥

Verse

यो वसेत् कामकोष्ठेऽस्मिन् क्षणार्धं वा तदर्धकम् । मुच्यते सर्वपापेभ्यः साक्षाद् देवी नराकृतिः ॥७॥

Verse

गायत्रीमण्डपाधारं भूनाभिस्थानमुत्तमम् । पुरुषार्थप्रदं शम्भोर्बिलाभ्रं तं नमाम्यहम् ॥८॥

Verse

यः कुर्यात् कामकोष्ठस्य बिलाभ्रस्य प्रदक्षिणम् । पदसङ्ख्याक्रमेणैव गोगर्भजननं लभेत् ॥९॥

Verse

विश्वकारणनेत्राढ्यां श्रीमत्त्रिपुरसुन्दरीम् । बन्धकासुरसंहन्त्रीं कामाक्षीं तामहं भजे ॥१०॥

Verse

पराजन्मदिने काञ्च्यां महाभ्यन्तरमार्गतः । योऽर्चयेत् तत्र कामाक्षीं कोटिपूजाफलं लभेत् । तत्फलोत्पन्नकैवल्यं सकृत् कामाक्षिसेवया ॥११॥

Verse

त्रिस्थाननिलयं देवं त्रिविधाकारमच्युतम् । प्रतिलिङ्गाग्रसंयुक्तं भूतबन्धं तमाश्रये ॥१२॥

Verse

य इदं प्रातरुत्थाय स्नानकाले पठेन्नरः । द्वादशश्लोकमात्रेण श्लोकोक्तफलमाप्नुयात् ॥

Verse

॥इति श्री-कामाक्षी-विलासे त्रयोविंशेऽध्याये श्री-कामाक्षी-माहात्म्यं सम्पूर्णम्॥

kāmākṣī suprabhātam
kāmākṣī-stotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms