aSTakam
toṭakāṣṭakaṃ
तोटकाष्टकं
Verse
शंकरं शंकराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥
Verse
नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च ।
Verse
व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥श्री शंकराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् ।
Verse
तं तोटकं वातिर्ककारमन्यानस्मद्गुरून् संततमानतो । अस्मि ॥
Verse
॥तोटकाष्टकं ॥
Verse
विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे । हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम् ॥१॥
Verse
करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् । रचयाखिलदर्शनतत्त्वविदं भव शंकर देशिक मे शरणम् ॥२॥
Verse
भवता जनता सुहिता भविता निजबोधविचारण चारुमते । कलयेश्वरजीवविवेकविदं भव शंकर देशिक मे शरणम् ॥३॥
Verse
भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता । मम वारय मोहमहाजलधिं भव शंकर देशिक मे शरणं ॥४॥
Verse
।
Verse
सुकृते ।
Verse
अधिकृते बहुधा भवतो भविता समदर्शनलालसता । अतिदीनमिमं परिपालय मां भव शंकर देशिक मे शरणम् ॥५॥
Verse
जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः । अहिमांशुरिवात्र विभासि गुरो भव शंकर देशिक मे शरणम् ॥६॥
Verse
गुरुपुंगव पुंगवकेतन ते समतामयतां नहि को ।
Verse
अपि सुधीः । शरणागतवत्सल तत्त्वनिधे भव शंकर देशिक मे शरणम् ॥७॥
Verse
विदिता न मया विशदैककला न च किंचन काञ्चनमस्ति गुरो । द्रुतमेव विधेहि कृपां सहजां भव शंकर देशिक मे शरणम् ॥८॥
