aSTakam
toṭakāṣṭakaṃ
तोटकाष्टकं
Verse
शंकरं शंकराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः॥
Verse
नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च । व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम्॥
Verse
श्री शंकराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् ।
Verse
तं तोटकं वातिर्ककारमन्यानस्मद्गुरून् संततमानतो ।
Verse
अस्मि विदिताखिलशास्त्रसुधाजलधे महितोपनिषत् कथितार्थनिधे । हृदये कलये विमलं चरणं भव शंकर देशिक मे शरणम्॥१॥
Verse
करुणावरुणालय पालय मां भवसागरदुःखविदूनहृदम् । रचयाखिलदर्शनतत्त्वविदं भव शंकर देशिक मे शरणम्॥२॥
Verse
भवता जनता सुहिता भविता निजबोधविचारण चारुमते । कलयेश्वरजीवविवेकविदं भव शंकर देशिक मे शरणम्॥३॥
Verse
भव एव भवानिति मे नितरां समजायत चेतसि कौतुकिता । मम वारय मोहमहाजलधिं भव शंकर देशिक मे शरणं॥४॥
Verse
सुकृते . अधिकृते बहुधा भवतो भविता समदर्शनलालसता । अतिदीनमिमं परिपालय मां भव शंकर देशिक मे शरणम्॥५॥
Verse
जगतीमवितुं कलिताकृतयो विचरन्ति महामहसश्छलतः । अहिमांशुरिवात्र विभासि गुरो भव शंकर देशिक मे शरणम्॥६॥
Verse
गुरुपुंगव पुंगवकेतन ते समतामयतां नहि को . अपि सुधीः । शरणागतवत्सल तत्त्वनिधे भव शंकर देशिक मे शरणम्॥७॥
Verse
विदिता न मया विशदैककला न च किंचन काञ्चनमस्ति गुरो । द्रुतमेव विधेहि कृपां सहजां भव शंकर देशिक मे शरणम्॥८॥
