aSTakam
jambunātāṣṭakam
जम्बुनाताष्टकम्
Verse
श्री श्रीधरवेङ्कटेशार्येण विरचितम् ।
Verse
कश्चन जगतां हेतुः कपर्दकन्दलितकुमुदजीवातुः । जयति ज्ञानमहीन्दुर्जन्ममृतिक्लांतिहरदयाबिन्दुः ॥१॥
Verse
श्रितभृतिभद्धपताकः कलितोत्पलवननवमदोद्रेकः । अखिलाण्डमातुरेकः सुखयत्वस्मांस्तपःपरीपाकः ॥२॥
Verse
कश्चन कारुण्यझरः कमलाकुचकलशकषणनिशितशरः । श्रीमान् दमितत्रिपुरः श्रितजंभूपरिसरश्चकास्तु पुरः ॥३॥
Verse
शमितस्मरदवविसरश्शक्राद्याशास्यसेवनावसरः । करिवनघनभाग्यभरो गिरतु मलं मम मनस्सरश्शफरः ॥४॥
Verse
गृहिणीकृतवैकुण्ठं गेहितजंभूमहीरुडुपकण्ठम् । दिव्यं किमप्यकुण्ठं तेजः स्तादस्मदवनसोत्कण्ठम् ॥५॥
Verse
कृतशमनदर्पहरणं कृतकेतरफणितिचारिरथचरणम् । शक्रादिश्रितचरणं शरणं जंभूद्रुमांतिकाभरणम् ॥६॥
Verse
करुणारसवारिधये करवाणि नमः प्रणम्रसुरविधये । जगदानन्दधुनिधये जंभूतरुमूलनिलयसन्निधये ॥७॥
Verse
कश्चन शशिचूढालं कण्ठेकालं दयौघमुत्कूलम् । श्रितजंभूतरुमूलं शिक्षितकालं भजे जगन्मूलम् ॥८॥
Verse
॥ जंभुनाथाष्टकं संपूर्णम् ॥
