Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

nṛsiṃhāṣṭottaraśatanāmastotram

नृसिंहाष्टोत्तरशतनामस्तोत्रम्

Verse

नारसिंहो महासिंहो दिव्यसिंहो महाबलः । उग्रसिंहो महादेवः स्तम्भजश्चोग्रलोचनः ॥१॥

Verse

रौद्रः सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः । हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥२॥

Verse

पञ्चाननः परब्रह्म अघोरो घोरविक्रमः । ज्वालामुखो ज्वालामाली महाज्वालो महाप्रभुः ॥३॥

Verse

निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः । महादंष्ट्रायुधः प्राज्ञश्चण्डकोपी सदाशिवः ॥४॥

Verse

हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः । गुणभद्रो महाभद्रो बलभद्रो सुभद्रकः ॥५॥

Verse

करालो विकरालश्च विकर्ता सर्वकर्तृकः । शिंशुमारस्त्रिलोकात्मा ईशः सर्वेश्वरो विभुः ॥६॥

Verse

भैरवाडम्बरो दिव्यश्चाच्युतः कविमाधवः । अधोक्षजोऽक्षरः शर्वो वनमाली वरप्रदः ॥७॥

Verse

विश्वम्भरोऽद्भुतो भव्यो विष्णुश्च पुरुषोत्तमः । अमोघास्त्रो नखास्त्रश्च सूर्यज्योतिः सुरेश्वरः ॥८॥

Verse

सहस्रबाहुः सर्वज्ञः सर्वसिद्धिप्रदायकः । वज्रदंष्ट्रो वज्रनखो महानादः परन्तपः ॥९॥

Verse

सर्वमन्त्रैकरूपश्च सर्वयन्त्रविदारणः । सर्वतन्त्रात्मकोऽव्यक्तः सुव्यक्तो भक्तवत्सलः ॥१०॥

Verse

वैशाखशुक्लसम्भूतः शरणागतवत्सलः । उदारकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः ॥११॥

Verse

वेदत्रयप्रपूज्यश्च भगवान् परमेश्वरः । श्रीवत्साङ्कः श्रीनिवासो जगद्व्यापी जगन्मयः ॥१२॥

Verse

जगत्पालो जगन्नाथो महाकायो द्विरूपभृत् । परमात्मा परञ्ज्योतिर्निर्गुणश्च नृकेसरी ॥१३॥

Verse

परतत्त्वं परन्धाम सच्चिदानन्दविग्रहः । लक्ष्मीनृसिंहः सर्वात्मा धीरः प्रह्लादपालकः ॥१४॥

Verse

॥इति श्री-नृसिंहाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥

lakṣmīnārāyaṇāṣṭottaraśatanāmastotram
hayagrīvāṣṭottaraśatanāmastotram

Read next

More on नृसिंहाष्टोत्तरशतनामस्तोत्रम्

  • नृसिंहाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीनृसिंहाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीनृसिंहाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • लक्ष्मीनृसिंहाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms