Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

hayagrīvāṣṭottaraśatanāmastotram

हयग्रीवाष्टोत्तरशतनामस्तोत्रम्

Verse

वन्दे पूरितचन्द्रमण्डलगतं श्वेतारविन्दासनं मन्दाकिन्यमृताब्धिकुन्दकुमुदक्षीरेन्दुहासं हरिम् । मुद्रापुस्तकशङ्खचक्रविलसच्छ्रीमद्भुजामण्डितं नित्यं निर्मलभारतीपरिमलं विश्वेशमश्वाननम् ॥१॥

Verse

ज्ञानानन्दमयं देवं निर्मलं स्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥

Verse

हयग्रीवो महाविष्णुः केशवो मधुसूदनः । गोविन्दः पुण्डरीकाक्षो विष्णुर्विश्वम्भरो हरिः ॥२॥

Verse

आदित्यः सर्ववागीशः सर्वाधारः सनातनः । निराधारो निराकारो निरीशो निरुपद्रवः ॥३॥

Verse

निरञ्जनो निष्कलङ्को नित्यतृप्तो निरामयः । चिदानन्दमयः साक्षी शरण्यः सर्वदायकः ॥४॥

Verse

श्रीमान् लोकत्रयाधीशः शिवः सारस्वतप्रदः । वेदोद्धर्त्ता वेदनिधिर्वेदवेद्यः प्रभूतनः ॥५॥

Verse

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिः परात्परः । परमात्मा परञ्ज्योतिः परेशः पारगः परः ॥६॥

Verse

र्सर्ववेदात्मको विद्वान् वेदवेदाङ्गपारगः । सकलोपनिषद्वेद्यो निष्कलः सर्वशास्त्रकृत् ॥७॥

Verse

अक्षमालाज्ञानमुद्रायुक्तहस्तो वरप्रदः । पुराणपुरुषः श्रेष्ठः शरण्यः परमेश्वरः ॥८॥

Verse

शान्तो दान्तो जितक्रोधो जितामित्रो जगन्मयः । जगन्मृत्युहरो जीवो जयदो जाड्यनाशनः ॥९॥

Verse

जनप्रियो जनस्तुत्यो जापकप्रियकृत् प्रभुः । विमलो विश्वरूपश्च विश्वगोप्ता विधिस्तुतः ॥१०॥

Verse

विधीन्द्रशिवसंस्तुत्यः शान्तिदः क्षान्तिपारगः । श्रेयप्रदः श्रुतिमयः श्रेयसां पतिरीश्वरः ॥११॥

Verse

अच्युतोऽनन्तरूपश्च प्राणदः पृथिवीपतिः । अव्यक्तो व्यक्तरूपश्च सर्वसाक्षी तमोहरः ॥१२॥

Verse

अज्ञाननाशको ज्ञानी पूर्णचन्द्रसमप्रभः । ज्ञानदो वाक्पतिर्योगी योगीशः सर्वकामदः ॥१३॥

Verse

महायोगी महामौनी मौनीशः श्रेयसां पतिः । हंसः परमहंसश्च विश्वगोप्ता विराट् स्वराट् ॥१४॥

Verse

शुद्धस्फटिकसङ्काशो जटामण्डलसंयुतः । आदिमध्यान्तरहितः सर्ववागीश्वरेश्वरः ॥१५॥

Verse

॥इति श्री-हयग्रीवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥

nṛsiṃhāṣṭottaraśatanāmastotram
dhanvantaryaṣṭottaraśatanāmastotram

Read next

More on हयग्रीवाष्टोत्तरशतनामस्तोत्रम्

  • श्री हयग्रीवाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीहयग्रीवाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms