Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrī hayagrīvāṣṭottaraśatanāmastotram

श्री हयग्रीवाष्टोत्तरशतनामस्तोत्रम्

Verse

हयग्रीवो महाविष्णुः केशवो मधुसूदनः गोविन्दः पुण्डरीकाक्षो विष्णुर्विश्वंभरो हरिः ॥१-९॥

Verse

आदित्यः सर्ववागीशः सर्वाधारो सनातनः निराधारो निराकारो निरीशो निरुपद्रवः ॥१०-१७॥

Verse

निरञ्जनोनिष्कलंको नित्यतृप्तो निरामयः चिदानन्दमयो साक्षी शरण्यः सर्वदायकः ॥१८-२५॥

Verse

श्रीमान् लोकत्रयाधीशो शिवः सारस्वतप्रदः वेदोद्धर्त्ता वेदनिधिर्वेदवेद्यः प्रभूतनः ॥२६-३३॥

Verse

पूर्णः पूरयिता पुण्य़ः पुण्यकीर्तिः परात्परः परमात्मा परंज्योतिः परेशः पारगः परः ॥३४-४३॥

Verse

र्सर्ववेदात्मको विद्वान्वेदवेदांगपारगः सकलोपनिषद्वेद्यो निष्कलः सर्वशास्त्रकृत् ॥४४-४९॥

Verse

अक्षमालाज्ञानमुद्रायुक्तहस्तो वरप्रदः पुराणपुरुषो श्रेष्ठः शरण्यः परमेश्वरः ॥५०-५५॥

Verse

शान्तो दान्तो जितक्रोधो जितामित्रो जगन्मयः जगन्मृत्युहरो जीवो जयदो जाड्यनाशनः ॥५६-६४॥

Verse

जनप्रियो जनस्तुत्यो जापकप्रियकृत्प्रभुः विमलो विश्वरूपश्च विश्वगोप्ता विधिस्तुतः ॥६५-७२॥

Verse

विधीन्द्रशिवसंस्तुत्यो शान्तिदः क्षान्तिपारगः श्रेयप्रदो श्रुतिमयो श्रेयसांपतिरीश्वरः ॥७३-७९॥

Verse

अच्युतोऽनन्तरूपश्च प्राणदः पृथिवीपतिः अव्यक्तो व्यक्तरूपश्च सर्वसाक्षी तमोहरः ॥८०-८७॥

Verse

अज्ञाननाशको ज्ञानी पूर्णचन्द्रसमप्रभः ज्ञानदो वाक्पतिर्योगी योगीशः सर्वकामदः ॥८८-९५॥

Verse

महायोगी महामौनी मौनीशो श्रेयसांपतिः हंसः परमहंसश्च विश्वगोप्ता विरट् स्वराट् ॥९६-१०४॥

Verse

शुद्धस्फटिकसंकाशः जटामण्डलसंयुतः आदिमध्यान्तरहितः सर्ववागीश्वरेश्वरः ॥१०५-१०८॥

śrī āñjaneya aṣṭottaraśatanāmastotram

Read next

More on हयग्रीवाष्टोत्तरशतनामस्तोत्रम्

  • श्रीहयग्रीवाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • हयग्रीवाष्टोत्तरशतनामस्तोत्रम्Stotra

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms