Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrī āñjaneya aṣṭottaraśatanāmastotram

श्री आञ्जनेय अष्टोत्तरशतनामस्तोत्रम्

Verse

आञ्जनेयो महावीरः हनूमान् मारुतात्मजः तत्त्वज्ञानप्रदो सीतादेवीमुद्राप्रदायकः ॥१-६॥

Verse

अशोकवनिकाच्छेत्ता सर्वमायाविभञ्जनः’ सर्वबन्धविमोक्ता च रक्षोविध्वंसकारकः ॥७-१०॥

Verse

परविद्यापरीहर्ता परशौर्यविनाशनः परमन्त्रनिराकर्ता परयन्त्रप्रभेदकः ॥११-१४॥

Verse

सर्वग्रहविनाशी च भीमसेनसहायकृत् सर्वदुःखहरः सर्वलोकचारी मनोजवः ॥१५-१९॥

Verse

पारिजातद्रुमूलस्थो सर्वमन्त्रस्वरूपवान् सर्वतन्त्रस्वरूपी च सर्वयन्त्रात्मिकस्तथा ॥२०-२३॥

Verse

कपीश्वरो महाकायः सर्वरोगहरः प्रभुः बलसिधिकरः सर्वविद्यासम्पत्प्रदायकः ॥२४-२९॥

Verse

कपिसेनानायकश्च भविष्यच्चतुराननः कुमारब्रह्मचारी च रत्नकुण्डलदीप्तिमान् ॥३०-३३॥

Verse

चञ्चलद्वालसन्नद्धलंबमानशिखोज्ज्वलः गन्धर्वविद्यातत्त्वज्ञो महाबलपराक्रमः ॥३४-३६॥

Verse

कारागृहविमोक्ता च शृंखलाबन्धमोचकः सागरोत्तारको प्राज्ञः रामदूतः प्रतापवान् ॥३७-४२॥

Verse

वानरः केसरीसूनुः सीताशोकनिवारणः अञ्जनागर्भसंभूतः बालार्कसदृशाननः ॥४३-४७॥

Verse

विभीषणप्रियकरो दशग्रीवकुलान्तकः लक्ष्मणप्राणदाता च वज्रकायो महाद्युतिः ॥४८-५२॥

Verse

चिरञ्जीवी रामभक्तः दैत्यकार्यविघातकः अक्षहन्ता काञ्चनाभः पञ्चवक्त्रो महातपाः ॥५३-५९॥

Verse

लंकिणीभञ्जनः श्रीमान् सिंहिकाप्राणभञ्जनः गन्धमादनशैलस्थो लंकापुरविदाहकः ॥६०-६४॥

Verse

सुग्रीवसचिवो धीरः शूरो दैत्यकुलान्तकः सुरार्चितो महातेजाः रामचूडामणिप्रदः ॥६५ -७१॥

Verse

कामरूपी पिङ्गलाक्षः वर्धिमैनाकपूजितः कबलीकृतमार्ताण्डमण्डलो विजितेन्द्रियः ॥७२- ७६॥

Verse

रामसुग्रीवसंधाता महिरावणमर्दनः स्फटिकाभो वागधीशो नवव्याकृतिपण्डितः ॥७७-८१॥

Verse

चतुर्बाहुर्दीनबन्धुःमहात्मा भक्तवत्सलः संजीवननगाहर्ता शुचिर्वाग्मी धृतव्रतः ॥८२-८९॥

Verse

कालनेमिप्रमथनः हरिर्मर्कटमर्कटः दान्तो शान्तः प्रसन्नात्मा शतकण्ठमदापहः ॥९०-९५॥

Verse

योगी रामकथालोलः सीतान्वेषणपण्डितः वज्रदंष्ट्रो वज्रनखः रुद्रवीर्यसमुद्भवः ॥९६-१०१॥

Verse

इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवर्तकः पार्थध्वजाग्रसंवासी शरपञ्जरहेलकः ॥१०२-१०४॥

Verse

दशबाहुर्लोकपूज्यो जाम्बवत्प्रीतिवर्धनः सीतासमेतश्रीरामपादसेवाधुरंधरः ॥१०५-१०८॥

śrī hayagrīvāṣṭottaraśatanāmastotram
tulasyaṣṭottaraśatanāmastotraṃ

Read next

More on आञ्जनेय अष्टोत्तरशतनामस्तोत्रम्

  • आञ्जनेयाष्टोत्तरशतनामस्तोत्रम्Stotra

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms