stotrasangraha
dhanvantaryaṣṭottaraśatanāmastotram
धन्वन्तर्यष्टोत्तरशतनामस्तोत्रम्
Verse
शङ्खं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्भिः सूक्ष्मस्वच्छातिहृद्यांशुक-परिविलसन्मौलिमम्भोजनेत्रम् । कालाम्भोदोज्ज्वलाङ्गं कटितटविलसच्चारूपीताम्बराढ्यं वन्दे धन्वन्तरिं तं निखिलगदवनप्रौढदावाग्निलीलम् ॥
Verse
धन्वन्तरिः सुधापूर्णकलशाढ्यकरो हरिः । जरामृतित्रस्तदेवप्रार्थनासाधकः प्रभुः ॥१॥
Verse
निर्विकल्पो निस्समानो मन्दस्मितमुखाम्बुजः । आञ्जनेयप्रापिताद्रिः पार्श्वस्थविनतासुतः ॥२॥
Verse
निमग्नमन्दरधरः कूर्मरूपी बृहत्तनुः । नीलकुञ्चितकेशान्तः परमाद्भुतरूपधृत् ॥३॥
Verse
कटाक्षवीक्षणाश्वस्तवासुकिः सिंहविक्रमः । स्मर्तृहृद्रोगहरणो महाविष्ण्वंशसम्भवः ॥४॥
Verse
प्रेक्षणीयोत्पलश्याम आयुर्वेदाधिदैवतम् । भेषजग्रहणानेहस्स्मरणीयपदाम्बुजः ॥५॥
Verse
नवयौवनसम्पन्नः किरीटान्वितमस्तकः । नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलिः ॥६॥
Verse
दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽम्बुजेक्षणः । चतुर्भुजः शङ्खधरश्चक्रहस्तो वरप्रदः ॥७॥
Verse
सुधापात्रोपरिलसदाम्रपत्रलसत्करः । शतपद्याढ्यहस्तश्च कस्तूरीतिलकाञ्चितः ॥८॥
Verse
सुकपोलः सुनासश्च सुन्दरभ्रूलताञ्चितः । स्वङ्गुलीतलशोभाढ्यो गूढजत्रुर्महाहनुः ॥९॥
Verse
दिव्याङ्गदलसद्बाहुः केयूरपरिशोभितः । विचित्ररत्नखचितवलयद्वयशोभितः ॥१०॥
Verse
समोल्लसत्सुजातांसश्चाङ्गुलीयविभूषितः । सुधागन्धरसास्वादमिलद्भृङ्गमनोहरः ॥११॥
Verse
लक्ष्मीसमर्पितोत्फुल्लकञ्जमालालसद्गलः । लक्ष्मीशोभितवक्षस्को वनमालाविराजितः ॥१२॥
Verse
नवरत्नमणीकॢप्तहारशोभितकन्धरः । हीरनक्षत्रमालादिशोभारञ्जितदिङ्मुखः ॥१३॥
Verse
विरजोऽम्बरसंवीतो विशालोराः पृथुश्रवाः । निम्ननाभिः सूक्ष्ममध्यः स्थूलजङ्घो निरञ्जनः ॥१४॥
Verse
सुलक्षणपदाङ्गुष्ठः सर्वसामुद्रिकान्वितः । अलक्तकारक्तपादो मूर्तिमद्वार्धिपूजितः ॥१५॥
Verse
सुधार्थान्योन्यसंयुध्यद् देवदैतेयसान्त्वनः । कोटिमन्मथसङ्काशः सर्वावयवसुन्दरः ॥१६॥
Verse
अमृतास्वादनोद्युक्तदेवसङ्घपरिष्टुतः । पुष्पवर्षणसंयुक्तगन्धर्वकुलसेवितः ॥१७॥
Verse
शङ्खतूर्यमृदङ्गादिसुवादित्राप्सरोवृतः । विष्वक्सेनादियुक्पार्श्वः सनकादिमुनिस्तुतः ॥१८॥
Verse
साश्चर्यसस्मितचतुर्मुखनेत्रसमीक्षितः । साशङ्कसम्भ्रमदितिदनुवंश्यसमीडितः ॥१९॥
Verse
नमनोन्मुखदेवादिमौलीरत्नलसत्पदः । दिव्यतेजःपुञ्जरूपः सर्वदेवहितोत्सुकः ॥२०॥
Verse
स्वनिर्गमक्षुब्धदुग्धवाराशिर्दुन्दुभिस्वनः । गन्धर्वगीतापदानश्रवणोत्कमहामनाः ॥२१॥
Verse
निष्किञ्चनजनप्रीतो भवसम्प्राप्तरोगहृत् । अन्तर्हितसुधापात्रो महात्मा मायिकाग्रणीः ॥२२॥
Verse
क्षणार्धमोहिनीरूपः सर्वस्त्रीशुभलक्षणः । मदमत्तेभगमनः सर्वलोकविमोहनः ॥२३॥
Verse
स्रंसन्नीवीग्रन्थिबन्धासक्तदिव्यकराङ्गुलिः । रत्नदर्वीलसद्धस्तो देवदैत्यविभागकृत् ॥२४॥
Verse
सङ्ख्यातदेवतान्यासो दैत्यदानववञ्चकः । देवामृतप्रदाता च परिवेषणहृष्टधीः ॥२५॥
Verse
उन्मुखोन्मुखदैत्येन्द्रदन्तपङ्कितविभाजकः । पुष्पवत्सुविनिर्दिष्टराहुरक्षःशिरोहरः ॥२६॥
Verse
राहुकेतुग्रहस्थानपश्चाद्गतिविधायकः । अमृतालाभनिर्विण्णयुध्यद् देवारिसूदनः ॥२७॥
Verse
गरुत्मद्वाहनारूढः सर्वेशस्तोत्रसंयुतः । स्वस्वाधिकारसन्तुष्टशक्रवह्न्यादिपूजितः ॥२८॥
Verse
मोहिनीदर्शनायातस्थाणुचित्तविमोहकः । शचीस्वाहादिदिक्पालपत्नीमण्डलसन्नुतः ॥२९॥
Verse
वेदान्तवेद्यमहिमा सर्वलोकैकरक्षकः । राजराजप्रपूज्याङ्घ्रिश्चिन्तितार्थप्रदायकः ॥३०॥
Verse
धन्वन्तरेर्भगवतो नाम्नामष्टोत्तरं शतम् । यः पठेत् सततं भक्त्या नीरोगः सुखभाग्भवेत् ॥३१॥
Verse
॥इति बृहद्ब्रह्मानन्दोपनिषदान्तर्गतं श्री-धन्वन्तर्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम्॥
