Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīdhanvantaryaṣṭottaraśatanāmastotram

श्रीधन्वन्तर्यष्टोत्तरशतनामस्तोत्रम्

Verse

धन्वन्तरिः सुधापूर्णकलशढ्यकरो हरिः । जरामृतित्रस्तदेवप्रार्थनासाधकः प्रभुः ॥१॥

Verse

निर्विकल्पो निस्समानो मन्दस्मितमुखाम्बुजः । आञ्जनेयप्रापिताद्रिः पार्श्वस्थविनतासुतः ॥२॥

Verse

निमग्नमन्दरधरः कूर्मरूपी बृहत्तनुः । नीलकुञ्चितकेशान्तः परमाद्भुतरूपधृत् ॥३॥

Verse

कटाक्षवीक्षणाश्वस्तवासुकिः सिंहविक्रमः । स्मर्तृहृद्रोगहरणो महाविष्ण्वंशसम्भवः ॥४॥

Verse

प्रेक्षणीयोत्पलश्याम आयुर्वेदाधिदैवतम् । भेषजग्रहणानेहस्स्मरणीयपदाम्बुजः ॥५॥

Verse

नवयौवनसम्पन्नः किरीटान्वितमस्तकः । नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलिः ॥६॥

Verse

दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽम्बुजेक्षणः । चतुर्भुजः शङ्खधरश्चक्रहस्तो वरप्रदः ॥७॥

Verse

सुधापात्रोपरिलसदाम्रपत्रलसत्करः । शतपद्याढ्यहस्तश्च कस्तूरीतिलकाञ्चितः ॥८॥

Verse

सुकपोलस्सुनासश्च सुन्दरभ्रूलताञ्चितः । स्वङ्गुलीतलशोभाढ्यो गूढजत्रुर्महाहनुः ॥९॥

Verse

दिव्याङ्गदलसद्बाहुः केयूरपरिशोभितः । विचित्ररत्नखचितवलयद्वयशोभितः ॥१०॥

Verse

समोल्लसत्सुजातांसश्चाङ्गुलीयविभूषितः । सुधाघन्धरसास्वादमिलद्भृङ्गमनोहरः ॥११॥

Verse

लक्ष्मीसमर्पितोत्फुल्लकञ्जमालालसद्गलः । लक्ष्मीशोभितवक्षस्को वनमालाविराजितः ॥१२॥

Verse

नवरत्नमणीक्लृप्तहारशोभितकन्धरः । हीरनक्षत्रमालादिशोभारञ्जितदिङ्मुखः ॥१३॥

Verse

विरजोऽम्बरसंवीतो विशालोराः पृथुश्रवाः । निम्ननाभिः सूक्ष्ममध्यः स्थूलजङ्घो निरञ्जनः ॥१४॥

Verse

सुलक्षणपदाङ्गुष्ठः सर्वसामुद्रिकान्वितः । अलक्तकारक्तपादो मूर्तिमद्वाधिपूजितः ॥१५॥

Verse

सुधार्थान्योन्यसंयुध्यद्देवदैतेयसान्त्वनः । कोटिमन्मथसङ्काशः सर्वावयवसुन्दरः ॥१६॥

Verse

अमृतास्वादनोद्युक्तदेवसङ्घपरिष्टुतः । पुष्पवर्षणसंयुक्तगन्धर्वकुलसेवितः ॥१७॥

Verse

शङ्खतूर्यमृदङ्गादिसुवादित्राप्सरोवृतः । विष्वक्सेनादियुक्पार्श्वः सनकादिमुनिस्तुतः ॥१८॥

Verse

साश्चर्यसस्मितचतुर्मुखनेत्रसमीक्षितः । साशङ्कसम्भ्रमदितिदनुवंश्यसमीडितः ॥१९॥

Verse

नमनोन्मुखदेवादिमौलीरत्नलसत्पदः । दिव्यतेजःपुञ्जरूपः सर्वदेवहितोत्सुकः ॥२०॥

Verse

स्वनिर्गमक्षुब्धदुग्धवाराशिर्दुन्दुभिस्वनः । गन्धर्वगीतापदानश्रवणोत्कमहामनाः ॥२१॥

Verse

निष्किञ्चनजनप्रीतो भवसम्प्राप्तरोगहृत् । अन्तर्हितसुधापात्रो महात्मा मायिकाग्रणीः ॥२२॥

Verse

क्षणार्धमोहिनीरूपः सर्वस्त्रीशुभलक्षणः । मदमत्तेभगमनः सर्वलोकविमोहनः ॥२३॥

Verse

स्रंसन्नीवीग्रन्थिबन्धासक्तदिव्यकराङ्गुलिः । रत्नदर्वीलसद्धस्तो देवदैत्यविभागकृत् ॥२४॥

Verse

सङ्ख्यातदेवतान्यासो दैत्यदानववञ्चकः । देवामृतप्रदाता च परिवेषणहृष्टधीः ॥२५॥

Verse

उन्मुखोन्मुखदैत्येन्द्रदन्तपङ्कितविभाजकः । पुष्पवत्सुविनिर्दिष्टराहुरक्षःशिरोहरः ॥२६॥

Verse

राहुकेतुग्रहस्थानपश्चाद्गतिविधायकः । अमृतालाभनिर्विण्णयुध्यद्देवारिसूदनः ॥२७॥

Verse

गरुत्मद्वाहनारूढः सर्वेशस्तोत्रसंयुतः । स्वस्वाधिकारसन्तुष्टशक्रवह्न्यादिपूजितः ॥२८॥

Verse

मोहिनीदर्शनायातस्थाणुचित्तविमोहकः । शचीस्वाहादिदिक्पालपत्नीमण्डलसन्नुतः ॥२९॥

Verse

वेदान्तवेद्यमहिमा सर्वलौकैकरक्षकः । राजराजप्रपूज्याङ्घ्रिः चिन्तितार्थप्रदायकः ॥३०॥

Verse

धन्वन्तरेर्भगवतो नाम्नामष्टोत्तरं शतम् । यः पठेत्सततं भक्त्या नीरोगस्सुखभाग्भवेत् ॥३१॥

Verse

इति बृहद्ब्रह्मानन्दोपनिषदान्तर्गतं श्रीधन्वन्तर्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।

devīvaibhavāścaryāṣṭottaraśatadivyanāmastotram
śrīdharmaśāstuḥ aṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms