Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

śrīdharmaśāstuḥ aṣṭottaraśatanāmastotram

श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रम्

Verse

श्रीपूर्णापुष्कलाम्बासमेत श्रीहरिहरपुत्रस्वामिने नमः ॥

Verse

ध्यानम् - कल्हारोज्ज्वल नीलकुन्तलभरं कालाम्बुद श्यामलं कर्पूराकलिताभिरामवपुषं कुन्देन्दुबिम्बाननम् । श्रीदण्डाङ्कुश-पाश-शूल-विलसत्पाणिं मदान्त- द्विपारूढं शत्रुविमर्दनं हृदि महाशास्तारमाद्यं भजे ॥

Verse

ॐ महाशास्ता महादेवो महादेवसुतोऽव्ययः । लोककर्ता लोकभर्ता लोकहर्तापरात्परः ॥१॥

Verse

त्रिलोकरक्षको धन्वी तपस्वी भूतसैनिकः । मन्त्रवेदी महावेदी मारुतो जगदीश्वरः ॥२॥

Verse

लोकाध्यक्षोऽग्रणीः श्रीमानप्रमेयपराक्रमः । सिम्हारूढो गजारूढो हयारूढो महेश्वरः ॥३॥

Verse

नानाशस्त्रधरोऽनर्घो नानाविद्याविशारदः । नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥४॥

Verse

भूतेशो भूतिदो भृत्यो भुजङ्गाभरणोज्ज्वलः । इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥५॥

Verse

मायादेवीसुतो मान्यो महनीयो महागुणः । महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥६॥

Verse

विघ्नेशो वीरभद्रेशो भैरवो षण्मुखप्रियः । मेरुशृङ्गसमासीनो मुनिसङ्घनिषेवितः ॥७॥

Verse

वेदो भद्रो जगन्नाथो गणनाथो गणेश्वरः । महायोगी महामायी महाज्ञानी महास्थिरः ॥८॥

Verse

वेदशास्ता भूतशास्ता भीमहासपराक्रमः । नागहारो नागकेशो व्योमकेशः सनातनः ॥९॥

Verse

सगुणो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः । लोकाश्रयो गणाधीशश्चतुष्षष्टिकलामयः ॥१०॥

Verse

ऋग्यजुःसामाथर्वात्मा मल्लकासुरभञ्जनः । त्रिमूर्तिर्दैत्यमथनः प्रकृतिः पुरुषोत्तमः ॥११॥

Verse

कालज्ञानी महाज्ञानी कामदः कमलेक्षणः । कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥१२॥

Verse

संसारतापविच्छेत्ता पशुलोकभयङ्करः । रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥१३॥

Verse

सर्वशास्त्रार्थ तत्त्वज्ञो नीतिमान् पापभञ्जनः । पुष्कलापूर्णासंयुक्तः परमात्मा सताङ्गतिः ॥१४॥

Verse

अनन्तादित्यसङ्काशः सुब्रह्मण्यानुजो बली । भक्तानुकम्पी देवेशो भगवान् भक्तवत्सलः ॥

Verse

इति श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

śrīdhanvantaryaṣṭottaraśatanāmastotram
śrīdhūmāvatyaṣṭottaraśatanāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms