Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTottaranAma

nṛsiṃhāṣṭottaraśatanāmastotram

नृसिंहाष्टोत्तरशतनामस्तोत्रम्

Verse

नारसिंहो महासिंहो दिव्यसिंहो महाबलः उग्रसिंहो महादेवो स्तंभजश्चोग्रलोचनः ॥१-८॥

Verse

रौद्रो सर्वाद्भुतः श्रीमान् योगानन्दस्त्रिविक्रमः हरिः कोलाहलश्चक्री विजयो जयवर्धनः ॥९-१८॥

Verse

पञ्चाननः परब्रह्म अघोरो घोरविक्रमः ज्वालामुखो ज्वालमाली महाज्वालो महाप्रभुः ॥१९-२६॥

Verse

निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः महादंष्ट्रायुधःप्राज्ञः चण्डकोपी सदाशिवः ॥२७-३४॥

Verse

हिरण्यकशिपुध्वंसी दैत्यदानवभञ्जनः गुणभद्रो महाभद्रः बलभद्रो सुभद्रकः ॥३५-४०॥

Verse

करालो विकरालश्च विकर्ता सर्वकर्तृकः शिंशुमारो त्रिलोकात्मा ईशः सर्वेश्वरो विभुः ॥४१-४९॥

Verse

भैरवाडम्बरो दिव्यो अच्युतः कविमाधवः अधोक्षजोऽक्षरो शर्वः वनमाली वरप्रदः ॥५०-५८॥

Verse

विश्वंभरोऽद्भुतो भव्यो विष्णुश्च पुरुषोत्तमः अमोघास्त्रो नखास्त्रश्च सूर्यज्योतिः र्सुरेश्वरः ॥५९-६७॥

Verse

सहस्रबाहुः सर्वज्ञः सर्वसिद्धिप्रदायकः वज्रदंष्ट्रो वज्रनखः महानादः परंतपः ॥६८-७४॥

Verse

सर्वमन्त्रैकरूपश्च सर्वयंत्रविदारणः सर्वतन्त्रात्मकोऽव्यक्तः सुव्यक्तो भक्तवत्सलः ॥७५-८०॥

Verse

वैशाखशुक्लसंभूतो शरणागतवत्सलः उदाराकीर्तिः पुण्यात्मा महात्मा चण्डविक्रमः ॥८१-८६॥

Verse

वेदत्रयप्रपूज्यश्च भगवान् परमेश्वरः श्रीवत्साङ्कः श्रीनिवासः जगद्व्यापीजगन्मयः ॥८७-९३॥

Verse

जगत्पालो जगन्नाथः महाकायो द्विरूपभृत् परमात्मा परंज्योतिः निर्गुणोऽथ नृकेसरी ॥९४-१०१॥

Verse

परतत्त्वो परंधाम सच्चिदानन्दविग्रहः लक्ष्मीनृसिंहो सर्वात्मा धीरः प्रह्लादपालकः ॥१०२-१०८॥

tulasyaṣṭottaraśatanāmastotraṃ
sarasvatyaṣṭottaraśatanāmastotram

Read next

More on नृसिंहाष्टोत्तरशतनामस्तोत्रम्

  • श्रीनृसिंहाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • श्रीनृसिंहाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • लक्ष्मीनृसिंहाष्टोत्तरशतनामस्तोत्रम्Ashtottaranama
  • नृसिंहाष्टोत्तरशतनामस्तोत्रम्Stotra

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms