aSTottaranAma
śrīnṛsiṃhāṣṭottaraśatanāmastotram
श्रीनृसिंहाष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीनृसिंहो महासिंहो दिव्यसिंहो महाबलः । उग्रसिंहो महादेव उपेन्द्रश्चाऽग्निलोचनः ॥१॥
Verse
रौद्रश्शौरिर्महावीरस्सुविक्रम-पराक्रमः । हरिकोलाहलश्चक्री विजयश्चाजयोऽव्ययः ॥२॥
Verse
दैत्यान्तकः परब्रह्माप्यघोरो घोरविक्रमः । ज्वालामुखो ज्वालमाली महाज्वालो महाप्रभुः ॥३॥
Verse
निटिलाक्षः सहस्राक्षो दुर्निरीक्ष्यः प्रतापनः । महादंष्ट्रायुधः प्राज्ञो हिरण्यकनिषूधनः ॥४॥
Verse
चण्डकोपी सुरारिघ्नस्सदार्तिघ्न-सदाशिवः । गुणभद्रो महाभद्रो बलभद्रस्सुभद्रकः ॥५॥
Verse
कराळो विकराळश्च गतायुस्सर्वकर्तृकः । भैरवाडंबरो दिव्यश्चागम्यस्सर्वशत्रुजित् ॥६॥
Verse
अमोघास्त्रश्शस्त्रधरः सव्यजूटस्सुरेश्वरः । सहस्रबाहुर्वज्रनखस्सर्वसिद्धिर्जनार्दनः ॥७॥
Verse
अनन्तो भगवान् स्थूलश्चागम्यश्च परावरः । सर्वमन्त्रैकरूपश्च सर्वयन्त्रविधारणः ॥८॥
Verse
अव्ययः परमानन्दः कालजित् खगवाहनः । भक्तातिवत्सलोऽव्यक्तस्सुव्यक्तस्सुलभश्शुचिः ॥९॥
Verse
लोकैकनायकस्सर्वश्शरणागतवत्सलः । धीरो धरश्च सर्वज्ञो भीमो भीमपराक्रमः ॥१०॥
Verse
देवप्रियो नुतः पूज्यो भवहृत् परमेश्वरः । श्रीवत्सवक्षाः श्रीवासो विभुस्सङ्कर्षणः प्रभुः ॥११॥
Verse
त्रिविक्रमस्त्रिलोकात्मा कामस्सर्वेश्वरेश्वरः । विश्वंभरः स्थिराभश्चाऽच्युतः पुरुषोत्तमः ॥१२॥
Verse
अधोक्षजोऽक्षयस्सेव्यो वनमाली प्रकंपनः । गुरुर्लोकगुरुस्स्रष्टा परंज्योतिः परायणः ॥१३॥
Verse
ज्वालाहोबिलमालोल-क्रोडाकारञ्जभार्गवाः । योगनन्दश्चत्रवटः पावनो नवमूर्तयः ॥१४॥
Verse
॥इति श्री नृसिंहाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥
