aSTottaranAma
śrīnṛsiṃhagirimahāmaṇḍaleśvarāṣṭottaraśatanāmastotram
श्रीनृसिंहगिरिमहामण्डलेश्वराष्टोत्तरशतनामस्तोत्रम्
Verse
ब्रह्मवर्ण समुद्भूतो ब्रह्ममार्गप्रवर्द्धकः । ब्रह्मज्ञानसदासक्तो व्रह्मज्ञानपरायणः ॥१॥
Verse
शिवपञ्चाक्षररतोऽशिवज्ञानविनाशकः ॥
Verse
शिवाभिषेकनिरतः शिवपूजापरायणः ॥२॥
Verse
नारायणप्रवचनो नारायणपरायणः । नारायणप्रत्नतनुर्नारायणनयस्थितः ॥३॥
Verse
दक्षिणामूर्तिपीठस्थो दक्षिणामूर्तिदेवतः । श्रीमेधादक्षिणामूर्तिमन्त्रयन्त्रसदारतः ॥४॥
Verse
मण्डलेशवरप्रेष्ठो मण्डलेशवरप्रदः । मण्डलेशगुरुश्रेष्ठो मण्डलेशवरस्तुतः ॥५॥
Verse
निरञ्जनप्रपीठस्थो निरञ्जनविचारकः । निरञ्जनसदाचारो निरञ्जनतनुस्थितः ॥६॥
Verse
वेदविद्वेदहृदयो वेदपाठप्रवर्तकः। वेदराद्धान्तसंविष्टोऽवेदपथप्रखण्डकः ॥७॥
Verse
शाङ्कराद्वैतव्याख्याता शाङ्कराद्वैतसंस्थितः । शाकराद्वैतविद्वेष्टृविनाशनपरायणः ॥८॥
Verse
अत्याश्रमाचाररतो भूतिधारणतत्परः । सिद्धासनसमासीनो काञ्चनाभो मनोहरः ॥९॥
Verse
अक्षमालाधृतग्रीवः काषायपरिवेष्टितः । ज्ञानमुद्रादक्षहस्तो वामहस्तकमण्डलुः ॥१०॥
Verse
सन्न्यासाश्रमनिर्भाता परहंसधुरन्धरः । सन्न्यासिनयसंस्कर्ता परहंसप्रमाणकः ॥११॥
Verse
माधुर्यपूर्णचरितो मधुराकारविग्रहः । मधुवाङ्निग्रहरतो मधुविद्याप्रदायकः ॥१२॥
Verse
मधुरालापचतुरो निग्रहानुग्रहक्षमः । आर्द्धरात्रध्यानरतस्त्रिपुण्ड्राङ्कितमस्तकः ॥१३॥
Verse
आरण्यवार्तिकपरः पुष्पमालाविभूषितः । वेदान्तवार्तानिरतः प्रस्थानत्रयभूषणः ॥१४॥
Verse
सानन्दज्ञानभाष्यादिग्रन्थग्रन्थिप्रभेदकः । दृष्टान्तानूक्तिकुशलो दृष्टान्तार्थनिरूपकः ॥१५॥
Verse
वीकानेरगुरुर्वाग्मी वङ्गदेशप्रपूजितः । लाहौरसरगोदादौ हिन्दूधर्मप्रचारकः ॥१६॥
Verse
गणेशजययात्रादिप्रतिष्ठापनतत्परः । गणेशशक्तिसूर्येशविष्णुभक्तिप्रचारकः ॥१७॥
Verse
सर्ववर्णसमाम्नातलिङ्गपूजाप्रवर्द्धकः । गीतोत्सवसपर्यादिचित्रयज्ञप्रवर्तकः ॥१८॥
Verse
लोकेश्वरानन्दप्रियो दयानन्दप्रसेवितः । आत्मानन्दगिरिज्ञानसतीर्थ्यपरिवेष्टितः ॥१९॥
Verse
अनन्तश्रद्धापरमप्रकाशानन्दपूजितः । जूनापीठस्थरामेशवरानन्दगिरेर्गुरुः ॥२०॥
Verse
माधवानन्दसंवेष्टा काशिकानन्ददेशिकः । वेदान्तमूर्तिराचार्यो शान्तो दान्तः प्रभुस्सुहृत् ॥२१॥
Verse
निर्ममो विश्वतरणिः स्मितास्यो निर्मलो महान् । तत्त्वमस्यादिवाक्योत्थदिव्यज्ञानप्रदायकः ॥२२॥
Verse
गिरीशानन्दसम्प्राप्तपरमहंसपरम्परा जनार्दनगिरिब्रह्यसंन्यासाश्रमदीक्षितः ॥२३॥
Verse
मण्डलेशकुलश्रेष्ठजयेन्द्रपुरीसंस्तुतः । रामानन्दगिरिस्थानस्थापितो मण्डलेश्वरः ॥२४॥
Verse
शन्दमहेशानन्दाय स्वकीयपददायकः । यतीन्द्रकृष्णानन्दैश्च पूजितपादपद्मक्ः ॥२५॥
Verse
उषोत्थानस्नानपूजाजपध्यानप्रचोदकः । तुरीयाश्रमसंविष्ठभाष्यपाठप्रवर्तकः ॥२६॥
Verse
अष्टलक्ष्यीप्रदस्तृप्तः स्पर्शदीक्षाविधायकः । अहैतुककृपासिन्धुरनघोभक्तवत्सलः ॥२७॥
Verse
विकारशून्यो दुर्धर्षः शिवसक्तो वरप्रदः । काशीवासप्रियो मुक्तो भक्तमुक्तिविधायकः ॥२८॥
Verse
श्रीभत्परमहंसादिसमस्तबिरुदाङ्कितः । नृसिंहब्रह्म वेदान्तजगत्यद्य जगद्गुरुः ॥२९॥
Verse
विलयं यान्ति पापानि गुरुनामानुकीर्तनात् । मुच्यते नात्र सन्देहः श्रद्धाभक्तिसमन्वितः ॥३०॥
Verse
इति श्रीनृसिंहगिरिमहामण्डलेश्वराष्टोत्तरशतनामस्तोत्रम् ॥
