aSTottaranAma
śrīnimbārkāṣṭottaraśatanāmastotram
श्रीनिम्बार्काष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीसदानन्दभट्टप्रणीतं - नमस्कृत्य प्रवक्ष्यामि श्रीमदाचार्यसद्गुरुम् । तन्नाम्नामष्टोत्तरशतं कृष्णभक्तिविवर्द्धनम् ॥१॥
Verse
ॐ आनन्दः परमानन्दः सूत्रभाष्य-प्रकाशकः । जीवोद्धारप्रयत्नामा स्मृतमात्रार्त्तिनाशनः ॥२॥
Verse
श्री भगावत-गुप्तार्थ-प्रबोधन-परायणः । साकारब्रह्मवादी च व्यापको ब्रह्मपारगः ॥३॥
Verse
माया-ध्वान्त-निराकर्त्ता व्यर्थवाद-निरासकृत् । भक्ति-पङ्कज-मार्त्तण्डो निम्बवृक्षविभाकरः ॥४॥
Verse
सर्वाचार्यप्रियः कृष्ण-बल्लवी-प्रिय-मानदः । लक्ष्मीकान्तो द्विजश्रेष्ठो महाकारुणिकः प्रभुः ॥५॥
Verse
अनन्तदानदक्षश्च महादेव-चरित्रवान् । आगमानुकृति-ब्याज-मोहितासुरमानुषः ॥६॥
Verse
आनन्दपूर्णाब्धिदेहो वैष्णवो हितकृत्सताम् । व्रजभोगार्थ-सद्रूप-भक्तिकृत् परमेश्वरः ॥७॥
Verse
सर्ववैष्णवसम्पन्नः श्रीविष्णुज्ञानदो मुनिः । स्वानन्द-चिक्कणः पद्म-दलायत-विलोचनः ॥८॥
Verse
कृपा-पीयूष-सञ्जुष्ट-वेद-पद्म-प्रभाकरः । रोष दृष्ट्या च सन्दग्ध-भक्त-शत्रुः स्वसेवितः ॥९॥
Verse
सुखपूर्णः सुखाराध्यः शीतलाङ्घ्रिसरोरुहः । भक्तप्रतापो भक्तादिर्भक्त-काम-प्रपूरितः ॥१०॥
Verse
श्रीभागवत-तात्पर्य्य-समुद्र-मथने क्षमः । वेदान्त-सारवाक् सिन्धु-तर्पिताखिलसेवकः ॥११॥
Verse
सामीप्य-भक्त-दत्तश्रीकृष्णप्रेमाऽखिलेष्टदः । कृष्णक्रीडारतो नित्यं दययैतत्कथाप्रदः ॥१२॥
Verse
कमलाधवभक्त्यर्थ-सर्वनामोपदेशकः । कर्माचारोपदेष्टा च भक्ति-मार्ग-प्रवर्त्तकः ॥१३॥
Verse
विश्वेन्द्रो धर्मकर्त्ता च धर्मकालो द्विजेश्वरः । सर्वानन्दः सर्वकामः कालभानुर्मुनीश्वरः ॥१४॥
Verse
गोपिकायशविस्तारवक्ता तत्परसाधनः । जीवाचारोपदेशार्थ-भक्ति-ग्रन्थ-निरूपकः ॥१५॥
Verse
शान्तो जितारिषड्वर्गों यशोदा-प्रियचेष्टितः । स्वशिष्यार्थ-कृताभ्यासः सर्वविद्या-विशारदः ॥१६॥
Verse
हरि-भक्ति-स्वभावो हि कृपा-सागरयत्नवान् । व्रजे संस्थापितप्राणो व्रजपालो व्रजाधिपः ॥१७॥
Verse
दयालुर्भेदभर्त्ता च भेदवादे सहायवान् । तमालश्यामलाङ्गो हि सिंहग्रीवो महाभुजः ॥१८॥
Verse
उपासनादिकर्त्ता च मुग्ध-मोह-विनाशकः । वाजपेय-सोमयज्ञ-चातुर्मास्यानुभूतिकृत् ॥१९॥
Verse
बकारिपद-सेवोपदेष्टा श्रीगोपिका-प्रियः । सुलक्षण-निकुञ्जस्थो गोपीश-रस-पूरितः ॥२०॥
Verse
भक्त-गम्यो हितप्रियो विस्मृतान्यो जनार्दनः । जनार्दनस्थितिः शुद्धलीलाकर्त्ता गतस्मयः ॥२१॥
Verse
गोपीनाथप्रियो गोपीज्ञानदाता विमोहनः । रामेषुप्राणाक्षरोक्त्या सद्यः पतित-पावनः ॥२२॥
Verse
हरिभक्त्योक्तसुहृदः स्वदयाम्बुजविष्टरः । गदी पद्मी सुयज्ञज्ञो दैत्यशत्रु-विमुक्तिदः ॥२३॥
Verse
लीलामृत-रसास्वाद-कृपा-जनशरीरभृत् । गोवर्द्धन-कृतोत्साहस्तल्लीलाप्रेममन्दिरः ॥२४॥
Verse
मोक्षकर्त्ता मोक्षभोक्ता चतुर्वेद-विशारदः । सत्यस्वभावस्त्रिगुणातीतः सुनय-कोविदः ॥२५॥
Verse
स्वकीर्त्तिगीताभाष्येन्दुर्वेदभाष्य-प्रदर्शकः । मायावादाख्यतूलाग्निः कृष्णवाक्य-निरूपकः ॥२६॥
Verse
अनन्त-भक्त-संराध्य-चरणाम्बुज-कोशभूः । इत्यानन्दविभोः प्रोक्तं नाम्नामष्टोत्तरं शतम् ॥२७॥
Verse
श्रद्धाविदोषबुद्धियो जपत्यनुदिनं बुधम् । चरणैकमनाः शुद्धमुक्तिं प्राप्नोत्यसंशयः ॥२८॥
Verse
यो जपेत्प्रातरुत्थाय निम्बार्कस्य महात्मनः । श्रद्धया पूरितः प्रोक्तं भक्तिविघ्नविनाशनम् ॥२९॥
Verse
प्रेमभक्तिर्भवेत्तस्य केशवे नात्र संशयः । अपारकष्टयुक्तोऽपि मुच्यते कष्टसकटात् ॥३०॥
Verse
सदानन्देन भट्टेन विष्णु-भक्ति-यशोऽर्थिना । प्रियावल्लभदासेन कृतं निम्बार्क-संस्तवम् ॥३१॥
Verse
स्वान्तान्धकारहन्तारं कर्त्तारं शुभकर्मणाम् । अभीष्ट-फलदातारं श्रीनिम्बार्कमहं भजे ॥३२॥
Verse
॥ इति श्रीसदानन्दभट्टप्रणीतं श्रीनिम्बार्काष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥
