aSTottaranAma
nityānandāṣṭottaraśatanāmastotram
नित्यानन्दाष्टोत्तरशतनामस्तोत्रम्
Verse
श्रीमान्नित्यानन्दचन्द्राय नमः ।
Verse
नित्यानन्दमहं वन्दे कर्णे लम्बितमौक्तिकम् । चैतन्याग्रजरूपेण पवित्रीकृतभूतलम् ॥१॥
Verse
प्रणम्य श्रीजगन्नाथं नित्यानन्दमहाप्रभुम् । नाम्नामष्टोत्तरशतं प्रवक्ष्यामि मुदाकरम् ॥२॥
Verse
नीलाम्बरधरः श्रीमाल्लाङ्गलीमुसलप्रियः । सङ्कर्षणश्चन्द्रवर्णो यदूनां कुलमङ्गलः ॥३॥
Verse
गोपिकारमणो रामो वृन्दावनकलानिधिः । कादम्बरीसुधामत्तो गोपगोपीगणावृतः ॥४॥
Verse
गोपीमण्डलमध्यस्थो रासताण्डवपण्डितः । रमणीरमणः कामी मदघूर्णितलोचनः ॥५॥
Verse
रासोत्सवपरिश्रान्तो घर्मनीरावृताननः । कालिन्दीभेदनोत्साही नीरक्रीडाकुतूहलः ॥६॥
Verse
गौराश्रयः शमः शान्तो मायामानुषरूपधृक् । नित्यानन्दावधूतश्च यज्ञसूत्रधरः सुधीः ॥७॥
Verse
पतितप्राणदः पृथ्वीपावनो भक्तवत्सलः । प्रेमानन्दमदोन्मत्तः ब्रह्मादीनामगोचरः ॥८॥
Verse
वनमालाधरो हारी रोचनादिविभूषितः । नागेन्द्रशुण्डदोर्दण्डस्वर्णकङ्कणमण्डितः ॥९॥
Verse
गौरभक्तिरसोल्लासश्चलच्चञ्चलनूपुरः । गजेन्द्रगतिलावण्यसम्मोहितजगज्जनः ॥१०॥
Verse
सम्वीतशुभलीलाधृग्रोमाञ्चितकलेवरः । हो हो ध्वनिसुधाशिश्च मुखचन्द्रविराजितः ॥११॥
Verse
सिन्धूरारुणसुस्निग्धसुबिम्बाधरपल्लवः । स्वभक्तगणमध्यस्थो रेवतीप्राणनायकः ॥१२॥
Verse
लौहदण्डधरो शृङ्गी वेणुपाणिः प्रतापवान् । प्रचण्डकृतहुङ्कारो मत्तः पाषण्डमार्दनः ॥१३॥
Verse
सर्वभक्तिमयो देव आश्रमाचारवर्जितः । गुणातीतो गुणमयो गुणवान् नर्तनप्रियः ॥१४॥
Verse
त्रिगुणात्मा गुणग्राही सगुणो गुणिनां वरः । योगी योगविधाता च भक्तियोगप्रदर्शकः ॥१५॥
Verse
सर्वशक्तिप्रकाशाङ्गी महानन्दमयो नटः । सर्वागममयो धीरो ज्ञानदो मुक्तिदः प्रभुः ॥१६॥
Verse
गौडदेशपरित्राता प्रेमानन्दप्रकाशकः । प्रेमानन्दरसानन्दी राधिकामन्त्रदो विभुः ॥१७॥
Verse
सर्वमन्त्रस्वरूपश्च कृष्णपर्यङ्कसुन्दरः । रसज्ञो रसदाता च रसभोक्ता रसाश्रयः ॥१८॥
Verse
ब्रह्मेशादिमहेन्द्राद्यवन्दितश्रीपदाम्बुजः । सहस्रमस्तकोपेतो रसातलसुधाकरः ॥१९॥
Verse
क्षीरोदार्णवसम्भूतः कुण्डलैकावतंसकः । रक्तोपलधरः शुभ्रो नारायणपरायणः ॥२०॥
Verse
अपारमहिमानन्तो नृदोषादर्शनः सदा । दयालुर्दुर्गतित्राता कृतान्तो दुष्टदेहिनाम् ॥२१॥
Verse
मञ्जुदाशरथिर्वीरो लक्ष्मणः सर्ववल्लभः । सदोज्ज्वलो रसानन्दी वृन्दावनरसप्रदः ॥२२॥
Verse
पूर्णप्रेमसुधासिन्धुर्नाट्यलीलाविशारदः । कोटीन्दुवैभवः श्रीमान् जगदाह्लादकारकः ॥२३॥
Verse
गोपालः सर्वपालश्च सर्वगोपावतंसकः । माघे मासि सिते पक्षे त्रयोदश्यां तिथौ सदा ॥२४॥
Verse
उपोषणं पूजनं च श्रीनित्यानन्दवासरे । यद्यत् सः कुरुते कामं तत्तदेव लभेन्नरः ॥२५॥
Verse
असाध्यरोगयुक्तोऽपि मुच्यते गदभीषणात् । अपुत्रः साधुपुत्रं च लभते नात्र संशयः ॥२६॥
Verse
नित्यानन्दस्वरूपस्य नाम्नामष्टोत्तरं शतम् । यः पठेत् प्रातरुत्थाय स लभेद्वाञ्छितं ध्रुवम् ॥२७॥
Verse
इति सार्वभौम भट्टाचार्यविरचितं नित्यानन्दाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
