Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

gaṅgāṣṭakam

गङ्गाष्टकम्

Verse

भगवति भवलीलामौलिमाले तवाम्भः कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति । अमरनगरनारीचामरमरग्राहिणीनां विगतकलिकलङ्कातङ्कमङ्के लुठन्ति ॥१॥

Verse

ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती स्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती । क्षोणी पृष्ठे लुठन्ती दुरितचयचमूं निर्भरं भर्त्सयन्ती पाथोधिं पूरयन्ती सुरनगरसरित् पावनी नः पुनातु ॥२॥

Verse

मज्जनमातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालं स्नानैः सिद्धाङ्गनानां कुचयुगविगलत् कुङ्कुमासङ्गपिङ्गम् । सायं प्रातर्मुनीनां कुशकुसुमचयैश्छिन्नतीरस्थनीरं पायान्नो गाङ्गमम्भः करिकलभकराक्रान्तरं हस्तरङ्गम् ॥३॥

Verse

आदावादिपितामहस्य नियमव्यापारपात्रे जलं पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् । भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥४॥

Verse

शैलेन्द्रादवतारिणी निजजल-मज्जज्जनोत्तारिणी पारावारविहारिणी भवभयश्रेणी-समुत्सारिणी । शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणी काशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥५॥

Verse

कुतो वीची वीचिस्तव यदि गता लोचनपथं त्वमापीता पीताम्बरपुग्निवासं वितरसि । त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतां तदा मातः शान्तक्रतवपदलाभोऽप्यतिलघुः ॥६॥

Verse

भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराधयामि । सकलकलुषभङ्गे स्वर्गसोपानगङ्गे तरलतरतरङ्गे देवि गङ्गे प्रसीद ॥७॥

Verse

मातर्जाह्नवी शम्भुसङ्गवलिते मौलौ निधायाञ्जलिं त्वत्तीरे वपुषोऽवसानसमये नारायणाङ्घ्रिद्वयम् । सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे भूयाद् भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥८॥

Verse

गङ्गाष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः । सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति ॥९॥

Verse

॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-गङ्गाष्टकं सम्पूर्णम्॥

Verse

गङ्गे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे । प्रायश्चितं यदि स्यात् तव जलकाणिक्रा ब्रह्महत्यादिपापे कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गङ्गे प्रसीद ॥

ketupañcaviṃśatināmastotram
gaṅgādaśaharāstotram

Read next

More on गङ्गाष्टकम्

  • श्री गंगाष्टकम्Ashtakam
  • गङ्गाष्टकम् -श्री वाल्मिकि विरचितम्Ashtakam
  • गंगाष्टकम् (श्री शंकराचार्यविरचितम्)Ashtakam
  • गंगाष्टकम्Ashtakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms