Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

ketupañcaviṃśatināmastotram

केतुपञ्चविंशतिनामस्तोत्रम्

Verse

केतुः कालः कलयिता धूम्रकेतुर्विवर्णकः । लोककेतुर्महाकेतुः सर्वकेतुर्भगप्रदः ॥१॥

Verse

रौद्रो रुद्रप्रियो रुद्रः क्रूरकर्मा सुगन्धधृक् । पलालधूमसङ्काशश्चित्रयज्ञोपवीतधृक् ॥२॥

Verse

तारागणविमर्दी च जैमिनेयो ग्रहाधिपः । गणेशदेवो विघ्नेशो विषरोगार्तिनाशनः ॥३॥

Verse

प्रव्राज्यदो ज्ञानदश्च तीर्थयात्राप्रवर्तकः । पञ्चविंशतिनामानि केतोर्यः सततं पठेत् ॥४॥

Verse

तस्य नश्यति बाधा च सर्वा केतुप्रसादतः । धनधान्यपशूनां च भवेद्वृद्धिर्न संशयः ॥५॥

Verse

॥इति श्री-स्कान्दपुराणे श्री-केतुपञ्चविंशतिनामस्तोत्रं सम्पूर्णम्॥

rāhupañcaviṃśatināmastotram
gaṅgāṣṭakam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms