stotrasangraha
rāhupañcaviṃśatināmastotram
राहुपञ्चविंशतिनामस्तोत्रम्
Verse
राहुर्दानवमन्त्री च सिंहिकाचित्तनन्दनः । अर्धकायः सदा क्रोधी चन्द्रादित्यविमर्दनः ॥१॥
Verse
रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुभीतिदः । ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः ॥२॥
Verse
कालदृष्टिः कालरूपः श्रीकण्ठहृदयाश्रयः । विधुन्तुदः सैंहिकेयो घोररूपो महाबलः ॥३॥
Verse
ग्रहपीडाकरो दंष्ट्री रक्तनेत्रो महोदरः । पञ्चविंशतिनामानि स्मृत्वा राहुं सदा नरः ॥४॥
Verse
यः पठेन्महती पीडा तस्य नश्यति केवलम् । आरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ॥५॥
Verse
ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् । सततं पठते यस्तु जीवेद् वर्षशतं नरः ॥६॥
Verse
॥ इति श्रीस्कान्दपुराणे श्री-राहुपञ्चविंशतिनामस्तोत्रं सम्पूर्णम्॥
