Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

gaṅgādaśaharāstotram

गङ्गादशहरास्तोत्रम्

Verse

नमः शिवायै गङ्गायै शिवदायै नमो नमः । नमस्ते रुद्ररूपिण्यै शाङ्कर्यै ते नमो नमः ॥१॥

Verse

नमस्ते विश्वरूपिण्यै ब्रह्ममूर्त्यै नमो नमः । सर्वदेवस्वरूपिण्यै नमो भेषजमूर्तये ॥२॥

Verse

सर्वस्य सर्वव्याधीनां भिषक्-श्रेष्ठे नमोऽस्तु ते । स्थाणुजङ्गमसम्भूतविषहन्त्र्यै नमो नमः ॥३॥

Verse

भोगोपभोगदायिन्यै भोगवत्यै नमो नमः । मन्दाकिन्यै नमस्तेऽस्तु स्वर्गदायै नमो नमः ॥४॥

Verse

नमस्त्रैलोक्यभूषायै जगद्धात्र्यै नमो नमः । नमः त्रिशुक्लसंस्थायै तेजोवत्यै नमो नमः ॥५॥

Verse

नन्दायै लिङ्गधारिण्यै नारायण्यै नमो नमः । नमस्ते विश्वमुख्यायै रेवत्यै ते नमो नमः ॥६॥

Verse

बृहत्यै ते नमस्तेऽस्तु लोकधात्र्यै नमो नमः । नमस्ते विश्वमित्रायै नन्दिन्यै ते नमो नमः ॥७॥

Verse

पृथ्व्यै शिवामृतायै च सुवृषायै नमो नमः । शान्तायै च वरिष्ठायै वरदायै नमो नमः ॥८॥

Verse

उस्रायै सुखदोग्ध्र्यै च सञ्जीविन्यै नमो नमः । ब्रह्मिष्ठायै ब्रह्मदायै दुरितघ्न्यै नमो नमः ॥९॥

Verse

प्रणतार्तिप्रभञ्जिन्यै जगन्मात्रे नमोऽस्तु ते । सर्वापत्प्रतिपक्षायै मङ्गलायै नमो नमः ॥१०॥

Verse

शरणागतदीनार्तपरित्राणपरायणे । सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तुते ॥११॥

Verse

निर्लेपायै दुर्गहन्त्र्यै दक्षायै ते नमो नमः । परात्परतरे तुभ्यं नमस्ते मोक्षदे सदा ॥१२॥

Verse

गङ्गे ममाग्रतो भूया गङ्गे मे देवि पृष्ठतः । गङ्गे मे पार्श्वयोरेहि त्वयि गङ्गेऽस्तु मे स्थितिः ॥१३॥

Verse

आदौ त्वमन्ते मध्ये च सर्वं त्वं गां गते शुभे । त्वमेव मूलप्रकृतिस्त्वं हि नारायणः परः । गङ्गे त्वं परमात्मा च शिवस्तुभ्यं नमः शिवे ॥१४॥

Verse

य इदं पठति स्तोत्रं भक्त्या नित्यं नरोऽपि यः । शृणुयाच्छ्रद्धया युक्तः कायवाक्चित्तसम्भवैः ॥१५॥

Verse

दशधा संस्थितैर्दोषैः सर्वैरेव प्रमुच्यते । सर्वान् कामानवाप्नोति प्रेत्य ब्रह्मणि लीयते ॥१६॥

Verse

ज्येष्ठे मासि सिते पक्षे दशमी हस्तसंयुता । तस्यां दशम्यामेतच्च स्तोत्रं गङ्गाजले स्थितः ॥१७॥

Verse

यः पठेद्दशकृत्वस्तु दरिद्रो वाऽपि चाक्षमः । सोऽपि तत् फलमाप्नोति गङ्गां सम्पूज्य यत्नतः ॥१८॥

Verse

अदत्तानामुपादानं हिंसा चैवाविधानतः । परदारोपसेवा च कायिकं त्रिविधं स्मृतम् ॥१९॥

Verse

पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः । असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥२०॥

Verse

परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् । वितथाभिनिवेशश्च मानसं त्रिविधं स्मृतम् ॥२१॥

Verse

एतानि दश पापानि हर त्वं मम जाह्नवि । दशपापहरा यस्मात्तस्माद् दशहरा स्मृता ॥२२॥

Verse

त्रयस्त्रिंशच्छतं पूर्वान् पितॄनथ पितामहान् । उद्धरत्येव संसारान्मन्त्रेणानेन पूजिता ॥२३॥

Verse

नमो भगवत्यै दशपापहरायै गङ्गायै नारायण्यै रेवत्यै शिवायै दक्षायै अमृतायै विश्वरूपिण्यै नन्दिन्यै ते नमो नमः॥

Verse

सितमकरनिषण्णां शुभ्रवर्णां त्रिनेत्रां करधृतकलशोद्यत्सोत्पलामत्यभीष्टाम् । विधिहरिहररूपां सेन्दुकोटीरजुष्टां कलितसितदुकूलां जाह्नवीं तां नमामि ॥२४॥

Verse

आदावादिपितामहस्य नियमव्यापारपात्रे जलं पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् । भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियं देवी कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥२५॥

Verse

गङ्गा गङ्गेति यो ब्रूयाद्योजनानां शतैरपि । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥२६॥

Verse

॥इति श्री-स्कान्दे महापुराणे एकाशीति साहस्र्यां संहितायां तृतीये काशीखण्डे धर्माब्धिस्था श्रीगङ्गादशहरास्तुतिः सम्पूर्णा॥

gaṅgāṣṭakam
gaṅgākarṣaṇāṣṭakam

Read next

More on गङ्गादशहरास्तोत्रम्

  • गङ्गादशहरास्तोत्रम्Stuti

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms