stotrasangraha
gaṅgākarṣaṇāṣṭakam
गङ्गाकर्षणाष्टकम्
Verse
शम्भो भवन्नामनिरन्तरानुसन्धानभाग्येन भवन्तमेव । यद्येष सर्वत्र तथाऽन्त्यजेऽद्य पश्यत्यहो कोऽत्र कृतोऽपराधः ॥१॥
Verse
अस्त्वेष मन्तुः पितृयज्ञनिष्ठे गङ्गाप्लवो यो विहितोऽपचित्यै । दूरात्तु तन्नामजपेन शुद्धिर्न स्यात् कथं मे स्मृतिरर्थवादः ॥२॥
Verse
त्वन्नामनिष्ठा न हि तावती मे श्रद्धा यतः कर्मसु न प्रदग्धा । त्रैशङ्कवं मे पशुपान्तरायो मुच्येय तस्मात्कथमार्तबन्धो ॥३॥
Verse
यद्यद्य ते श्राद्धविनष्टिरिष्टा कोऽहं ततोऽन्यच्चरितुं समर्थः । श्राद्धे वृताः पूर्वदिनोपवासा नान्यत्र भुञ्जीयुरिदं तु खिद्ये ॥४॥
Verse
श्रद्धालवः श्राद्धविघातभीत्या स्वात्मोपरोधं विगणय्य धीराः । यत्प्रोचुरत्रापचितिं महान्तः तत्रोचितं यद् दयया विधेहि ॥५॥
Verse
गङ्गाधर त्वद्भजनान्तरायभीत्या गृहे कूपकृतावगाहः । जाने न तीर्थान्तरमद्य गङ्गामासादयेयं कथमार्तबन्धो ॥६॥
Verse
नाहं तपस्वी सगरान्ववायो जाने न जह्वश्चरति क्व वेति । शम्भो जटाजूटमपावृणुष्वेत्यभ्यर्थने नालमयं वराकः ॥७॥
Verse
गङ्गाधराख्या गतिरत्र नान्या तामाश्रये सङ्कटमोचनाय । हन्त प्रवाहः कथमत्र कूपे विस्फूर्जतीशः खलु मे प्रसन्नः ॥८॥
Verse
गङ्गेति गङ्गेति हरेति गृह्णन् आप्लावितोऽहं दयया पुरारेः । कूपोत्थितोऽयं करुणाप्रवाहः गाङ्गश्चिरायात्र जनान् पुनातु ॥९॥
Verse
॥इति श्रीमच्छ्रीधरार्यकृतं गङ्गाकर्षणाष्टकं सम्पूर्णम्॥
