aSTakam
gaṃgāṣṭakam
गंगाष्टकम्
Verse
भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराधयामि । सकलकलुषभंगे स्वर्गसोपानगंगे तरलतरतरंगे देवि गंगे प्रसीद॥१॥
Verse
भगवति भवलीलामौइलिमाले तवांभः कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति । अमरनगरनारिचामरमरग्राहिणीनां विगतकलिकलंकातंकमंके लुठन्ति॥२॥
Verse
ब्रह्माण्डं खंडयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती खल्लोर्कात् आपतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती । क्षोणी पृष्ठे लुठन्ती दुरितचयचमूनिंर्भरं भत्सर्यन्ती पाथोधिं पुरयन्ती सुरनगरसरित् पावनी नः पुनातु॥३॥
Verse
मज्जनमातंगकुंभच्युतमदमदिरामोदमत्तालिजालं स्नानं । सिद्धांगनानां कुचयुगविगलत् कुंकुमासंगपिंगम् सायंप्रातर्मुनीनां कुशकुसुमचयैः छन्नतीरस्थनीरं पाय न्नो गांगमंभः करिकलभकराक्रान्तरं हस्तरंगम्॥४॥
Verse
आदावादि पितामहस्य नियमव्यापारपात्रे जलं पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् । भूयः शंभुजटाविभूषणमणिः जहनोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते॥५ ॥
Verse
शैलेन्द्रात् अवतारिणी निजजले मज्जत् जनोत्तारिणी पारावारविहारिणी भवभयश्रेणी समुत्सारिणी । शेषाहेरनुकारिणी हरशिरोवल्लिदलाकारिणी काशीप्रान्तविहारिणी विजयते गंगा मनोओहारिणो ॥६॥
Verse
कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं त्वमापीता पीतांबरपुग्निवासं वितरसि । त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः॥७॥
Verse
गंगे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे । प्रायश्चितं यदि स्यात् तव जलकाणिक्रा ब्रह्महत्यादिपापे कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गंगे प्रसीद॥८॥
Verse
मातर्जाह्नवी शंभुसंगवलिते मौलै निधायाञ्जलिं त्वत्तीरे वपुषोऽवसानसमये नारायणांध्रिद्वयम् । सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे भूयात् भक्तिरविच्युता हरिहरद्वैतात्मिका शाश्वती॥९ ॥
Verse
गंआष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति॥१०॥
