aSTakam
doṣaparihārāṣṭakam
दोषपरिहाराष्टकम्
Verse
अन्यस्य दोषगणनाकुतुकं ममैत- दाविष्करोति नियतं मयि दोषवत्त्वम् । दोषः पुनर्मयि नचेदखिले सतीशे दोषग्रहः कथमुदेतु ममेश तस्मिन् ॥१॥
Verse
एषाप्यथेतरकृतेति ममेश कस्मिन् कोपो यदि स्वपरकाममुखप्रसूता । सेयं व्यथेति मयि मे न कथन्नु कोपः स्वस्य व्यथा स्वदुरितप्रभवा हि सर्वा ॥२॥
Verse
कामप्रभृत्यखिलदोषनिधेर्ममैष मव्याह दोषमिति कोनु दुराग्रहोऽस्मिन् । हेयत्वमालपति योऽयमलं न केन वार्योऽथ सत्ववति सोऽयमसत् किमाह ॥३॥
Verse
यस्संश्रितः स्वहितधीर्व्यसनातुरस्त- द्दोषस्य तं प्रति वचोऽस्तु तदन्यदोषम् । यद्वच्मि तन्मम न किं क्षतये स्वदोष- चिन्तैव मे तदपनोदफलोचितातः ॥४॥
Verse
दोषं परस्य ननु गृण्हति मय्यनेन स्वात्मैष एव परगात्रसमाहृतेन । दुर्वस्तुनेव मलिनीकृयते तदन्य- दोषग्रहादहह किं न निवर्तितव्यम् ॥५॥
Verse
निर्दोषभावमितरस्य सदोषभावं स्वस्यापि संविदधती परदोषधीर्मे । आस्तामियं तदितरातु परार्तिमात्र- हेतुर्व्यनक्तु न कथं मम तुच्छभावम् ॥६॥
Verse
पद्मादिसौरभ इव भ्रमरस्य हर्षं हित्वाऽन्यदीयसुगुणे पुनरन्यदोषे । हर्षो दुरर्थ इव गेहकिटेः किमास्ते हा मे कदेश कृपया विगळेत्स एषः ॥७॥
Verse
दोषे स्वभाजिमतिकौशलमन्यभाजि मौढ्यं गुणेऽन्यजुषि हर्षभरः स्वभाजि । अस्तप्रसक्तिरखिलेषु दयात्युदार- वृत्योर्जितो मम कदास्तु हरानुरागः ॥८॥
Verse
॥ इति श्री श्रीधरवेंकटेशार्येण विरचितम् दोषपरिहाराष्टकं संपूर्णम् ॥
