Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

aSTakam

saṃskṛtāṣṭakam

संस्कृताष्टकम्

Verse

अग्रतः संस्कृतं मेऽस्तु पृष्ठतो मेऽस्तु संस्कृतम् । संस्कृतं हृदये मेऽस्तु विश्वमध्येऽस्तु संस्कृतम् ॥१॥

Verse

संस्कृतं देवभाषाऽस्ति वेदभाषाऽस्ति संस्कृतम् । प्राचीन- ज्ञान- भाषा च संस्कृतं भद्रमण्डनम् ॥२॥

Verse

वेदान्तानां पुराणानां शास्त्राणां च तथैव च । मंत्राणां तंत्रसूत्राणाम् आद्यभाषाऽस्ति संस्कृतम् ॥३॥

Verse

रामायणं महाकाव्यं महाभारतमेव च । उभे च विश्वविख्याते संस्कृतस्य महानिधी ॥४॥

Verse

भासस्य कालिदासस्य भवभूतेश्च विश्रुता । बाण- शूद्रक- हर्षाणाम् काव्यभाषाऽस्ति संस्कृतम् ॥५॥

Verse

प्राणभूतं च यत्तत्त्वं सारभूतं तथैव च । संस्कृतौ भारतस्याऽस्य तन्मे यच्छतु संस्कृतम् ॥६॥

Verse

यत्र रामकथागानम् तत्राऽस्ते हनुमान् यथा । संस्कृताध्ययनं यत्र तत्र संस्कृतिदर्शनम् ॥७॥

Verse

शृणुमः संस्कृतं नित्यं वदामः संस्कृतं तथा । स्मरामः संस्कृतं नित्यं पठामः संस्कृतं तथा ॥८॥

Verse

रचनाकारः वसन्तः शंकरसुतः नानिवडेकरः ।

doṣaparihārāṣṭakam
dhanyāṣṭakaṃ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms