stotrasangraha
durgāstotram
दुर्गास्तोत्रम्
Verse
स्तोत्रं च श्रूयतां ब्रह्मन् सर्वविघ्नविनाशकम् । सुखदं मोक्षदं सारं भवसन्तारकारणम् ॥
Verse
त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी । त्वमेवाऽऽद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ॥१॥
Verse
कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम् । परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी ॥२॥
Verse
तेजःस्वरूपा परमा भक्तानुग्रहविग्रहा । सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा ॥३॥
Verse
सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया । सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला ॥४॥
Verse
सर्वबुद्धिस्वरूपा च सर्वशक्तिस्वरूपिणी । सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी ॥५॥
Verse
त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम् । दक्षिणा सर्वदाने च सर्वशक्तिस्वरूपिणी ॥६॥
Verse
निद्रा त्वं च दया त्वं च तृष्णा त्वं चाऽऽत्मनः प्रिया । क्षुत्क्षान्तिः शान्तिरीशा च कान्तिस्तुष्टिश्च शाश्वती ॥७॥
Verse
श्रद्धा पुष्टिश्च तन्द्रा च लज्जा शोभा प्रभा तथा । सतां सम्पत्स्वरूपा श्रीर्विपत्तिरसतामिह ॥८॥
Verse
प्रीतिरूपा पुण्यवतां पापिनां कलहाङ्कुरा । शश्वत्कर्ममयी शक्तिः सर्वदा सर्वजीविनाम् ॥९॥
Verse
देवेभ्यः स्वपदो दात्री धातुर्धात्री कृपामयी । हिताय सर्वदेवानां सर्वासुरविनाशिनी ॥१०॥
Verse
योगनिद्रा योगरूपा योगदात्री च योगिनाम् । सिद्धिस्वरूपा सिद्धानां सिद्धिदा सिद्धियोगिनी ॥११॥
Verse
माहेश्वरी च ब्रह्माणी विष्णुमाया च वैष्णवी । भद्रदा भद्रकाली च सर्वलोकभयङ्करी ॥१२॥
Verse
ग्रामे ग्रामे ग्रामदेवी गृहदेवी गृहे गृहे । सतां कीर्तिः प्रतिष्ठा च निन्दा त्वमसतां सदा ॥१३॥
Verse
महायुद्धे महामारी दुष्टसंहाररूपिणी । रक्षास्वरूपा शिष्टानां मातेव हितकारिणी ॥१४॥
Verse
वन्द्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा । ब्राह्मण्यरूपा विप्राणां तपस्या च तपस्विनाम् ॥१५॥
Verse
विद्या विद्यावतां त्वं च बुद्धिर्बुद्धिमतां सताम् । मेधा स्मृतिस्वरूपा च प्रतिभा प्रतिभावताम् ॥१६॥
Verse
राज्ञां प्रतापरूपा च विशां वाणिज्यरूपिणी । सृष्टौ सृष्टिस्वरूपा त्वं रक्षारूपा च पालने ॥१७॥
Verse
तथाऽन्ते त्वं महामारी विश्वे विश्वैश्च पूजिते । कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी ॥१८॥
Verse
दुरत्यया मे माया त्वं यया सम्मोहितं जगत् । यया मुग्धो हि विद्वांश्च मोक्षमार्गं न पश्यति ॥१९॥
Verse
इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम् । पूजाकाले पठेद्यो हि सिद्धिर्भवति वाञ्छिता ॥२०॥
Verse
वन्ध्या च काकवन्ध्या च मृतवत्सा च दुर्भगा । श्रुत्वा स्तोत्रं वर्षमेकं सुपुत्रं लभते ध्रुवम् ॥२१॥
Verse
कारागारे महाघोरे यो बद्धो दृढबन्धने । श्रुत्वा स्तोत्रं मासमेकं बन्धनान्मुच्यते ध्रुवम् ॥२२॥
Verse
यक्ष्मग्रस्तो गलत्कुष्ठी महाशूली महाज्वरी । श्रुत्वा स्तोत्रं वर्षमेकं सद्यो रोगात् प्रमुच्यते ॥२३॥
Verse
पुत्रभेदे प्रजाभेदे पत्नीभेदे च दुर्गतः । श्रुत्वा स्तोत्रं मासमेकं लभते नात्र संशयः ॥२४॥
Verse
राजद्वारे श्मशाने च महारण्ये रणस्थले । हिंस्रजन्तुसमीपे च श्रुत्वा स्तोत्रं प्रमुच्यते ॥२५॥
Verse
गृहदाहे च दावाग्नौ दस्युसैन्यसमन्विते । स्तोत्रश्रवणमात्रेण लभते नात्र संशयः ॥२६॥
Verse
महादरिद्रो मूर्खश्च वर्षं स्तोत्रं पठेत् तु यः । विद्यावान् धनवांश्चैव स भवेन्नात्र संशयः ॥२७॥
Verse
॥इति श्रीब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे षट्षष्टितमेऽध्याये श्री-नारद-नारायण-संवादे दुर्गोपाख्याने श्री-कृष्णविरचितं श्री-दुर्गास्तोत्रं सम्पूर्णम्॥
