stotrasangraha
durgāpañcaratnam
दुर्गापञ्चरत्नम्
Verse
ते ध्यान-योगानुगता अपश्यन् त्वामेव देवीं स्वगुणैर्निगूढाम् । त्वमेव शक्तिः परमेश्वरस्य मां पाहि सर्वेश्वरि मोक्षदात्रि ॥१॥
Verse
देवात्मशक्तिः श्रुतिवाक्यगीता महर्षि लोकस्य पुरः प्रसन्ना । गुहा परं व्योम सतः प्रतिष्ठा मां पाहि सर्वेश्वरि मोक्षदात्रि ॥२॥
Verse
परास्य शक्तिर्विविधैव श्रूयसे श्वेताश्व-वाक्योदित-देवि दुर्गे । स्वाभाविकी ज्ञानबलक्रिया ते मां पाहि सर्वेश्वरि मोक्षदात्रि ॥३॥
Verse
देवात्मशब्देन शिवात्मभूता यत्कूर्मवायव्यवचो विवृत्या । त्वं पाशविच्छेदकरी प्रसिद्धा मां पाहि सर्वेश्वरि मोक्षदात्रि ॥४॥
Verse
त्वं ब्रह्मपुच्छा विविधा मयूरी ब्रह्म-प्रतिष्ठाऽस्युपदिष्ट-गीता । ज्ञानस्वरूपात्मतयाऽखिलानां मां पाहि सर्वेश्वरि मोक्षदात्रि ॥५॥
Verse
॥इति श्री-काञ्चीजगद्गुरु-श्री-चन्द्रशेखरेन्द्रसरस्वती-श्रीचरणैः विरचितं श्री-दुर्गापञ्चरत्नं सम्पूर्णम्॥
