Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

ṣaṣṭhīdevī-stotram

षष्ठीदेवी-स्तोत्रम्

Verse

नमो देव्यै महादेव्यै सिद्‍ध्यै शान्त्यै नमो नमः । शुभायै देवसेनायै षष्ठीदेव्यै नमो नमः ॥१॥

Verse

वरदायै पुत्रदायै धनदायै नमो नमः । सुखदायै मोक्षदायै षष्ठीदेव्यै नमो नमः ॥२॥

Verse

शक्तेः षष्ठांशरूपायै सिद्धायै च नमो नमः । मायायै सिद्धयोगिन्यै षष्ठीदेव्यै नमो नमः ॥३॥

Verse

पारायै पारदायै च षष्ठीदेव्यै नमो नमः । सारायै सारदायै च पारायै सर्वकर्मणाम् ॥४॥

Verse

बालाधिष्ठातृदेव्यै च षष्ठीदेव्यै नमो नमः । कल्याणदायै कल्याण्यै फलदायै च कर्मणाम् । प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः ॥५॥

Verse

पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु । देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः ॥६॥

Verse

शुद्धसत्त्वस्वरूपायै वन्दितायै नृणां सदा । हिंसाक्रोधैर्वर्जितायै षष्ठीदेव्यै नमो नमः ॥७॥

Verse

धनं देहि प्रियां देहि पुत्रं देहि सुरेश्वरि । धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः ॥८॥

Verse

भूमिं देहि प्रजां देहि देहि विद्यां सुपूजिते । कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः ॥९॥

Verse

इति देवीं च संस्तूय लेभे पुत्रं प्रियव्रतः । यशस्विनं च राजेन्द्रं षष्ठीदेवीप्रसादतः ॥१०॥

Verse

षष्ठीस्तोत्रमिदं ब्रह्मण् यः शृणोति च वत्सरम् । अपुत्रो लभते पुत्रं वरं सुचिरजीवनम् ॥११॥

Verse

वर्षमेकं च या भक्त्या संयतेदं शृणोति च । सर्वपापाद्विनिर्मुक्ता महावन्ध्या प्रसूयते ॥१२॥

Verse

वीरपुत्रं च गुणिनं विद्यावन्तं यशस्विनम् । सुचिरायुष्मन्तमेव षष्ठीमातृप्रसादतः ॥१३॥

Verse

काकवन्ध्या च या नारी मृतापत्या च या भवेत् । वर्षं श्रुत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः ॥१४॥

Verse

रोगयुक्ते च बाले च पिता माता शृणोति च । मासं च मुच्यते बालः षष्ठीदेवीप्रसादतः ॥१५॥

Verse

॥इति श्री-ब्रह्मवैवर्तमहापुराणे प्रकृतिखण्डे श्री-नारद-नारायण-संवादे षष्ठ्युपाख्याने श्री-प्रियव्रतविरचितं श्री-षष्ठीदेवीस्तोत्रं सम्पूर्णम्॥

annapūrṇāstotram
durgāpañcaratnam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms