Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

paraśurāmakṛta-durgāstotram

परशुरामकृत-दुर्गास्तोत्रम्

Verse

श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च । आविर्भूता विग्रहतः परा सृष्ट्युन्मुखस्य च ॥१॥

Verse

सूर्यकोटिप्रभायुक्ता वस्त्रालङ्कारभूषिता । वह्निशुद्धांशुकाधाना सुस्मिता सुमनोहरा ॥२॥

Verse

नवयौवनसम्पन्ना सिन्दूरारुण्यशोभिता । ललितं कबरीभारं मालतीमाल्यमण्डितम् ॥३॥

Verse

अहोऽनिर्वचनीया त्वं चारुमूर्तिं च बिभ्रती । मोक्षप्रदा मुमुक्षूणां महाविष्णोर्विधिः स्वयम् ॥४॥

Verse

मुमोह क्षणमात्रेण दृष्ट्वा त्वां सर्वमोहिनीम् । बालैः सम्भूय सहसा सस्मिता धाविता पुरा ॥५॥

Verse

सद्भिः ख्याता तेन राधा मूलप्रकृतिरीश्वरी । कृष्णस्त्वां सहसा भीतो वीर्याधानं चकार ह ॥६॥

Verse

ततो डिम्भं महज्जज्ञे ततो जातो महान्विराट् । यस्यैव लोमकूपेषु ब्रह्माण्डान्यखिलानि च ॥७॥

Verse

राधारतिक्रमेणैव तन्निःश्वासो बभूव ह । स निःश्वासो महावायुः स विराड्विश्वधारकः ॥८॥

Verse

भयघर्मजलेनैव पुप्लुवे विश्वगोलकम् । स विराड् विश्वनिलयो जलराशिर्बभूव ह ॥९॥

Verse

ततस्त्वं पञ्चधा भूय पञ्चमूर्तीश्च बिभ्रती । प्राणाधिष्ठातृमूर्तिर्या कृष्णस्य परमात्मनः ॥१०॥

Verse

कृष्णप्राणाधिकां राधां तां वदन्ति पुराविदः । वेदाधिष्ठातृमूर्तिर्या वेदशास्त्रप्रसूरपि ॥११॥

Verse

तं सावित्रीं शुद्धरूपां प्रवदन्ति मनीषिणः । ऐश्वर्याधिष्ठातृमूर्तिः शान्तिस्त्वं शान्तरूपिणी ॥१२॥

Verse

लक्ष्मीं वदन्ति सन्तस्तां शुद्धां सत्त्‍‌वस्वरूपिणीम् । रागाधिष्ठात्री या देवी शुक्लमूर्तिः सतां प्रसूः ॥१३॥

Verse

सरस्वतीं तां शास्त्रज्ञां शास्त्रज्ञाः प्रवदन्त्यहो । बुद्धिर्विद्या सर्वशक्तेर्या मूर्तिरधिदेवता ॥१४॥

Verse

सर्वमङ्गलदा सन्तो वदन्ति सर्वमङ्गलाम् । सर्वमङ्गलमङ्गल्या सर्वमङ्गलरूपिणी ॥१५॥

Verse

सर्वमङ्गलबीजस्य शिवस्य निलयेऽधुना । शिवे शिवास्वरूपा त्वं लक्ष्मीर्नारायणान्तिके ॥१६॥

Verse

सरस्वती च सावित्री वेदसू‌र्ब्रह्मणः प्रिया । राधा रासेश्वरस्यैव परिपूर्णतमस्य च ॥१७॥

Verse

परमानन्दरूपस्य परमानन्दरूपिणी । त्वत्कलांशांशकलया देवानामपि योषितः ॥१८॥

Verse

त्वं विद्या योषितः सर्वाः सर्वेषां बीजरूपिणी । छाया सूर्यस्य चन्द्रस्य रोहिणी सर्वमोहिनी ॥१९॥

Verse

शची शक्रस्य कामस्य कामिनी रतिरीश्वरी । वरुणानी जलेशस्य वायोः स्त्रीः प्राणवल्लभा ॥२०॥

Verse

वह्नेः प्रिया हि स्वाहा च कुबेरस्य च सुन्दरी । यमस्य तु सुशीला च नैर्ऋतस्य च कैटभी ॥२१॥

Verse

ऐशानी स्याच्छशिकला शतरूपा मनोः प्रिया । देवहूतिः कर्दमस्य वसिष्ठस्याप्यरुन्धती ॥२२॥

Verse

लोपामुद्राऽप्यगस्त्यस्य देवमाताऽदितिस्तथा । अहल्या गौतमस्यापि सर्वाधारा वसुन्धरा ॥२३॥

Verse

गङ्गा च तुलसी चापि पृथिव्यां या सरिद्वरा । एताः सर्वाश्च या ह्यन्या सर्वास्त्वत्कलयाऽम्बिके ॥२४॥

Verse

गृहलक्ष्मीर्गृहे नॄणां राजलक्ष्मीश्च राजसु । तपस्विनां तपस्या त्वं गायत्री ब्राह्मणस्य च ॥२५॥

Verse

सतां सत्त्‍‌वस्वरूपा त्वमसतां कलहाङ्कुरा । ज्योतीरूपा निर्गुणस्य शक्तिस्त्वं सगुणस्य च ॥२६॥

Verse

सूर्ये प्रभास्वरूपा त्वं दाहिका च हुताशने । जले शैत्यस्वरूपा च शोभारूपा निशाकरे ॥२७॥

Verse

त्वं भूमौ गन्धरूपा च आकाशे शब्दरूपिणी । क्षुत्पिपासादयस्त्वं च जीविनां सर्वशक्तयः ॥२८॥

Verse

सर्वबीजस्वरूपा त्वं संसारे साररूपिणी । स्मृतिर्मेधा च बुद्धिर्वा ज्ञानशक्तिर्विपश्चिताम् ॥२९॥

Verse

कृष्णेन विद्या या दत्ता सर्वज्ञानप्रसूः शुभा । शूलिने कृपया सा त्वं यया मृत्युञ्जयः शिवः ॥३०॥

Verse

सृष्टिपालनसंहारशक्तयस्त्रिविधाश्च याः । ब्रह्मविष्णुमहेशानां सा त्वमेव नमोऽस्तु ते ॥३१॥

Verse

मधुकैटभभीत्या च त्रस्तो धाता प्रकम्पितः । स्तुत्वा मुक्तश्च यां देवीं तां मूर्ध्ना प्रणमाम्यहम् ॥३२॥

Verse

मधुकैटभयोर्युद्धे त्राताऽसौ विष्णुरीश्वरीम् । बभूव शक्तिमान् स्तुत्वा तां दुर्गां प्रणमाम्यहम् ॥३३॥

Verse

त्रिपुरस्य महायुद्धे सरथे पतिते शिवे । यां तुष्टुवुः सुराः सर्वे तां दुर्गां प्रणमाम्यहम् ॥३४॥

Verse

विष्णुना वृषरूपेण स्वयं शम्भुः समुत्थितः । जघान त्रिपुरं स्तुत्वा तां दुर्गां प्रणमाम्यहम् ॥३५॥

Verse

यदाज्ञया वाति वातः सूर्यस्तपति सन्ततम् । वर्षतीन्द्रो दहत्यग्निस्तां दुर्गां प्रणमाम्यहम् ॥३६॥

Verse

यदाज्ञया हि कालश्च शश्वद् भ्रमति वेगतः । मृत्युश्चरति जन्तूनां तां दुर्गां प्रणमाम्यहम् ॥३७॥

Verse

स्त्रष्टा सृजति सृष्टिं च पाता पाति यदाज्ञया । संहर्ता संहरेत् काले तां दुर्गां प्रणमाम्यहम् ॥३८॥

Verse

ज्योतिःस्वरूपो भगवाञ्छ्रीकृष्णो निर्गुणः स्वयम् । यया विना न शक्तश्च सृष्टिं कर्तुं नमामि ताम् ॥३९॥

Verse

रक्ष रक्ष जगन्मातरपराधं क्षमस्व मे । शिशूनामपराधेन कुतो माता हि कुप्यति ॥४०॥

Verse

इत्युक्त्वा परशुरामश्च नत्वा तां च रुरोद ह । तुष्टा दुर्गा सम्भ्रमेण चाभयं च वरं ददौ ॥४१॥

Verse

अमरो भव हे पुत्र वत्स सुस्थिरतां व्रज । शर्वप्रसादात् सर्वत्र जयोऽस्तु तव सन्ततम् ॥४२॥

Verse

सर्वान्तरात्मा भगवांस्तुष्टः स्यात्सन्ततं हरिः । भक्तिर्भवतु ते कृष्णे शिवदे च शिवे गुरौ ॥४३॥

Verse

इष्टदेवे गुरौ यस्य भक्तिर्भवति शाश्वती । तं हन्तुं न हि शक्ताश्च रुष्टा वा सर्वदेवताः ॥४४॥

Verse

श्रीकृष्णस्य च भक्तस्त्वं शिष्यो वै शङ्करस्य च । गुरुपत्‍‌नीं स्तौषि यस्मात् कस्त्वां हन्तुमिहेश्वरः ॥४५॥

Verse

अहो न कृष्णभक्तानामशुभं विद्यते क्वचित् । अन्यदेवेषु ये भक्ता न भक्ता वा निरङ्कुशाः ॥४६॥

Verse

चन्द्रमा बलवांस्तुष्टो येषां भाग्यवतां भृगो । तेषां तारागणा रुष्टाः किं कुर्वन्ति च दुर्बलाः ॥४७॥

Verse

यस्मै तुष्टः पालयति नरदेवो महान् सुखी । तस्य किं वा करिष्यन्ति रुष्टा भृत्याश्च दुर्बलाः ॥४८॥

Verse

इत्युक्त्वा पार्वती तुष्टा दत्त्‍‌वा रामाय चाऽऽशिषम् । जगामान्तःपुरं तूर्णं हर्षशब्दो बभूव ह ॥४९॥

Verse

स्तोत्रं वै काण्वशाखोक्तं पूजाकाले च यः पठेत् । यात्राकाले च प्रातर्वा वाञ्छितार्थं लभेद्ध्रुवम् ॥५०॥

Verse

पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत् । विद्यार्थी लभते विद्यां प्रजार्थी चाऽऽप्नुयात् प्रजाम् ॥५१॥

Verse

भ्रष्टराज्यो लभेद् राज्यं नष्टवित्तो धनं लभेत् । यस्य रुष्टो गुरुर्देवो राजा वा बान्धवोऽथवा ॥५२॥

Verse

तस्मै तुष्टश्च वरदः स्तोत्रराजप्रसादतः । दस्युग्रस्तो फणिग्रस्तः शत्रुग्रस्तो भयानकः ॥५३॥

Verse

व्याधिग्रस्तो भवेन्मुक्तः स्तोत्रस्मरणमात्रतः । राजद्वारे श्मशाने च कारागारे च बन्धने ॥५४॥

Verse

जलराशौ निमग्नश्च मुक्तस्तत्स्मृतिमात्रतः । स्वामिभेदे पुत्रभेदे मित्रभेदे च दारुणे ॥५५॥

Verse

स्तोत्रस्मरणमात्रेण वाञ्छितार्थं लभेद्ध्रुवम् । कृत्वा हविष्यं वर्षं च स्तोत्रराजं श्रृणोति या ॥५६॥

Verse

भक्त्या दुर्गां च सम्पूज्य महावन्ध्या प्रसूयते । लभते सा दिव्यपुत्रं ज्ञानिनं चिरजीविनम् । असौभाग्या च सौभाग्यं षण्मासश्रवणाल्लभेत् ॥५७॥

Verse

नवमासं काकवन्ध्या मृतवत्सा च भक्तितः । स्तोत्रराजं या श्रृणोति सा पुत्रं लभते ध्रुवम् ॥५८॥

Verse

कन्यामाता पुत्रहीना पञ्चमासं श्रृणोति या । घटे सम्पूज्य दुर्गां च सा पुत्रं लभते ध्रुवम् ॥५९॥

Verse

॥इति श्री-ब्रह्मवैवर्तमहापुराणे गणपतिखण्डे पञ्चचत्वारिंशेऽध्याये श्री-नारद-नारायण-संवादे श्री-परशुरामकृतं श्री-दुर्गास्तोत्रं सम्पूर्णम्॥

durgā-stutiḥ (arjuna-kṛtā)
gāyatrīstotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms