Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

gāyatrīstotram

गायत्रीस्तोत्रम्

Verse

मुक्ता-विद्रुम-हेम-नील-धवलच्छायैर्मुखैस्त्रीक्षणैः युक्तामिन्दु-निबद्ध-रत्न-मकुटां तत्त्वार्थ-वर्णात्मिकाम् । गायत्रीं वरदाभयाङ्कुशकशाः शुभ्रं कपालं गदां शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥

Verse

भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम् । गायत्र्याः कथितं तस्माद् गायत्र्याः स्तोत्रमीरय ॥१॥

Verse

आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि । सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते ॥२॥

Verse

त्वमेव सन्ध्या गायत्री सावित्री च सरस्वती । ब्रह्माणी वैष्णवी रौद्री रक्तश्वेता सितेतरा ॥३॥

Verse

प्रातर्बाला च मध्याह्ने यौवनस्था भवेत् पुनः । वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥४॥

Verse

हंसस्था गरुडारूढा तथा वृषभवाहिनी । ऋग्वेदाध्यायिनी भूमौ दृश्यते या तपस्विभिः ॥५॥

Verse

यजुर्वेदं पठन्ती च ह्यन्तरिक्षे विराजते । या सामगाऽपि सर्वेषु भ्राम्यमाणा तथा भुवि ॥६॥

Verse

रुद्रलोकं गता त्वं हि विष्णुलोकनिवासिनी । त्वमेव ब्रह्मणो लोकेऽमर्त्यानुग्रहकारिणी ॥७॥

Verse

सप्तर्षिप्रीतिजननी माया बहुवरप्रदा । शिवयोः करनेत्रोत्था ह्यश्रुस्वेदसमुद्भवा ॥८॥

Verse

आनन्दजननी दुर्गा दशधा परिपठ्यते । वरेण्या वरदा चैव वरिष्ठा वरवर्णिनी ॥९॥

Verse

गरिष्ठा च वराही च वरारोहा च सप्तमी । नीलगङ्गा तथा सन्ध्या सर्वदा भोगमोक्षदा ॥१०॥

Verse

भागीरथी मर्त्यलोके पाताले भोगवत्यपि । त्रिलोकवाहिनी देवी स्थानत्रयनिवासिनी ॥११॥

Verse

भूर्लोकस्था त्वमेवासि धरित्री शोकधारिणी । भुवो लोके वायुशक्तिः स्वर्लोके तेजसां निधिः ॥१२॥

Verse

महर्लोके महासिद्धिर्जनलोकेऽजनेत्यपि । तपस्विनी तपोलोके सत्यलोके तु सत्यवाक् ॥१३॥

Verse

कमला विष्णुलोके च गायत्री ब्रह्मलोकगा । रुद्रलोके स्थिता गौरी हरार्धाङ्गनिवासिनी ॥१४॥

Verse

अहमो महतश्चैव प्रकृतिस्त्वं हि गीयसे । साम्यावस्थात्मिका त्वं हि शबलब्रह्मरूपिणी ॥१५॥

Verse

ततः परा पराशक्तिः परमा त्वं हि गीयसे । इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्रिशक्तिदा ॥१६॥

Verse

गङ्गा च यमुना चैव विपाशा च सरस्वती । सरयू रेविका सिन्धुर्नर्मदैरावती तथा ॥१७॥

Verse

गोदावरी शतद्रुश्च कावेरी देवलोकगा । कौशिकी चन्द्रभागा च वितस्ता च सरस्वती ॥१८॥

Verse

गण्डकी तापिनी तोया गोमती वेत्रवत्यपि । इडा च पिङ्गला चैव सुषुम्णा च तृतीयका ॥१९॥

Verse

गान्धारी हस्तजिह्वा च पूषाऽपूषा तथैव च । अलम्बुषा कुहूश्चैव शङ्खिनी प्राणवाहिनी ॥२०॥

Verse

नाडी च त्वं शरीरस्था गीयसे प्राक्तनैर्बुधैः । हृत्पद्मस्था प्राणशक्तिः कण्ठस्था स्वप्ननायिका ॥२१॥

Verse

तालुस्था त्वं सदाधारा बिन्दुस्था बिन्दुमालिनी । मूले तु कुण्डलीशक्तिर्व्यापिनी केशमूलगा ॥२२॥

Verse

शिखामध्यासना त्वं हि शिखाग्रे तु मनोन्मनी । किमन्यद् बहुनोक्तेन यत्किञ्चिज्जगतीत्रये ॥२३॥

Verse

तत् सर्वं त्वं महादेवि श्रिये सन्ध्ये नमोऽस्तु ते । इतीदं कीर्तितं स्तोत्रं सन्ध्यायां बहुपुण्यदम् ॥२४॥

Verse

महापापप्रशमनं महासिद्धिविदायकम् । य इदं कीर्तयेत् स्तोत्रं सन्ध्याकाले समाहितः ॥२५॥

Verse

अपुत्रः प्राप्नुयात् पुत्रं धनार्थी धनमाप्नुयात् । सर्वतीर्थतपोदानयज्ञयोगफलं लभेत् ॥२६॥

Verse

भोगान् भुक्त्वा चिरं कालमन्ते मोक्षमवाप्नुयात् । तपस्विभिः कृतं स्तोत्रं स्नानकाले तु यः पठेत् ॥२७॥

Verse

यत्र कुत्र जले मग्नः सन्ध्यामज्जनजं फलम् । लभते नात्र सन्देहः सत्यं सत्यं तु नारद ॥२८॥

Verse

शृणुयाद् योऽपि तद्भक्त्या स तु पापात् प्रमुच्यते । पीयूषसदृशं वाक्यं सन्ध्योक्तं नारदेरितम् ॥२९॥

Verse

॥इति श्री-गायत्री स्तोत्रं सम्पूर्णम्॥

paraśurāmakṛta-durgāstotram
kanakadhārāstavaḥ

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms