Fetching Data .

Loading verse structure and chapter context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

kavaca

durgāstotram

दुर्गास्तोत्रम्

Verse

श्रीगणेशाय नमः । श्रीदुर्गायै नमः । नारायण उवाच । पुरा स्तुता सा गोलोके कृष्णेन परमात्मना । सम्पूज्य मधुमासे च संप्रीते रासमण्डले ॥१॥

Verse

मधुकैटभयोर्युद्धे द्वितीये विष्णुना पुरा । तत्रैव काले सा दुर्गा ब्रह्मणा प्राणसङ्कटे ॥२॥

Verse

चतुर्थे संस्तुता देवी भक्त्या च त्रिपुरारिणा । पुरा त्रिपुरयुद्धे च महाघोरतरे मुने ॥३॥

Verse

पञ्चमे संस्तुता देवी वृत्रासुरवधे तथा । शक्रेण सर्वदेवैश्च घोरे च प्राणसङ्कटे ॥४॥

Verse

तदा मुनीन्द्रैर्मनुभिर्मानवैः सुरथादिभिः । संस्तुता पूजिता सा च कल्पे कल्पे परात्परा ॥५॥

Verse

स्तोत्रञ्च श्रूयतां ब्रह्मन्सर्वविघ्नविनाशकम् । सुखदं मोक्षदं सारं भवसन्तारकारणम् ॥६॥

Verse

श्रीकृष्ण उवाच । त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी । त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ॥७॥

Verse

कार्य्यार्थे सगुणा त्वञ्च वस्तुतो निर्गुणा स्वयम् । परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी ॥८॥

Verse

तेजस्स्वरूपा परमा भक्तानुग्रविग्रहा । सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा ॥९॥

Verse

सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया । सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला ॥१०॥

Verse

सर्वबुद्धिस्वरूपा च सर्वशक्तिस्वरूपिणी । सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी ॥११॥

Verse

त्वं स्वाहा देवदाने च पितृदाने स्वधा स्वयम् । दक्षिणा सर्वदाने च सर्वशक्तिस्वरूपिणी ॥१२॥

Verse

निद्रा त्वं च दया त्वं च तृष्णा त्वं चात्मनः प्रिया । क्षुत्क्षान्तिः शान्तिरीशा च कान्तिः सृष्टिश्च शाश्वती ॥१३॥

Verse

श्रद्धा पुष्टिश्च तन्द्रा च लज्जा शोभा दया तथा । सतां सम्पत्स्वरूपा श्रीर्विपत्तिरसतामिह ॥१४॥

Verse

प्रीतिरूपा पुण्यवतां पापिनां कलहाङ्कुरा । शश्वत्कर्ममयी शक्तिः सर्वदा सर्वजीविनाम् ॥१५॥

Verse

देवेभ्यः स्वपदोदात्री धातुर्धात्री कृपामयी । हिताय सर्वदेवानां सर्वासुरविनाशिनी ॥१६॥

Verse

योगिनिद्रा योगरूपा योगदात्री च योगिनाम् । सिद्धिस्वरूपा सिद्धानां सिद्धिदा सिद्धयोगिनी ॥१७॥

Verse

ब्रह्माणी माहेश्वरी च विष्णुमाया च वैष्णवी । भद्रदा भद्रकाली च सर्वलोकभयङ्करी ॥१८॥

Verse

ग्रामे ग्रामे ग्रामदेवी गृहदेवी गृहे गृहे । सतां कीर्त्तिः प्रतिष्ठा च निन्दा त्वमसतां सदा ॥१९॥

Verse

महायुद्धे महामारी दुष्टसंहाररूपिणी । रक्षास्वरूपा शिष्टानां मातेव हितकारिणी ॥२०॥

Verse

वन्द्या पूज्या स्तुता त्वं च ब्रह्मादीनां च सर्वदा । ब्राह्मण्यरूपा (ब्रह्मण्यरूपा) विप्राणां तपस्या च तपस्विनाम् ॥२१॥

Verse

विद्या विद्यावतां त्वं च बुद्धिर्बुद्धिमतां सताम् । मेधा स्मृतिस्वरूपा च प्रतिभा प्रतिभावताम् ॥२२॥

Verse

राज्ञां प्रतापरूपा च विशां वाणिज्यरूपिणी । सृष्टौ सृष्टिस्वरूपा त्वं रक्षारूपा च पालने ॥२३॥

Verse

तथाऽन्ते त्वं महामारी विश्वे विश्वैश्च पूजिते । (विश्वस्य विश्वपूजिते) कालरात्रिर्महारात्रिर्मोहरात्रिश्च मोहिनी ॥२४॥

Verse

दुरत्यया मे माया त्वं यया सम्मोहितं जगत् । यया मुग्धो हि विद्वांश्च मोक्षमार्गं न पश्यति ॥२५॥

Verse

इत्यात्मना कृतं स्तोत्रं दुर्गाया दुर्गनाशनम् । पूजाकाले पठेद्यो हि सिद्धिर्भवति वाञ्छिता ॥२६॥

Verse

वन्ध्या च काकवन्ध्या च मृतवत्सा च दुर्भगा । श्रुत्वा स्तोत्रं वर्षमेकं सुपुत्रं लभते धुवम् ॥२७॥

Verse

कारागारे महाघोरे यो बद्धो दृढबन्धने । श्रुत्वा स्तोत्रं मासमेकं बन्धनान्मुच्यते धुवम् ॥२८॥

Verse

यक्ष्मग्रस्तो गलत्कुष्ठी महाशूली महाज्वरी । श्रुत्वा स्तोत्रं वर्षमेकं सद्यो रोगात्प्रमुच्यते ॥२९॥

Verse

पुत्रभेदे प्रजाभेदे पत्नीभेदे च दुर्गतः । श्रुत्वा स्तोत्रं मासमेकं लभते नात्र संशयः ॥३०॥

Verse

राजद्वारे श्मशाने च महारण्ये रणस्थले । हिंस्रजन्तुसमीपे च श्रुत्वा स्तोत्रं प्रमुच्यते ॥३१॥

Verse

गृहदाहे च दावाग्नौ दस्युसैन्यसमन्विते । स्तोत्रश्रवणमात्रेण लभते नात्र संशयः ॥३२॥

Verse

महादरिद्रो मूर्खश्च वर्षं स्तोत्रं पठेत्तु यः । विद्यावान्धनवांश्चैव स भवेन्नात्र संशयः ॥३३॥

Verse

॥ इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे दुर्गोपाख्याने दुर्गास्तोत्रं नाम षट्षष्टितमोऽध्यायः ॥

vaṃśavṛddhikaraṃ durgākavacam athavā vaṃśakavacam
devīkavacam

Read next

More on दुर्गास्तोत्रम्

  • श्रीरामदुर्गस्तोत्रम्Kavach
  • श्रीरामदुर्गस्तोत्रम्Kavach
  • दुर्गास्तोत्रम्Stotra
  • दुर्गास्तोत्रम् (युधिष्ठिरकृतम्)Stotra
  • परशुरामकृत-दुर्गास्तोत्रम्Stotra

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms