stotrasangraha
durgāstotram (yudhiṣṭhirakṛtam)
दुर्गास्तोत्रम् (युधिष्ठिरकृतम्)
Verse
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः । अस्तुवन्मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥१॥
Verse
यशोदागर्भसम्भूतां नारायणवरप्रियाम् । नन्दगोपकुले जातां मङ्गल्यां कुलवर्धनीम् ॥२॥
Verse
कंसविद्रावणकरीमसुराणां क्षयङ्करीम् । शिलातटविनिक्षिप्तामाकाशं प्रति गामिनीम् ॥३॥
Verse
वासुदेवस्य भगिनीं दिव्यमाल्यविभूषिताम् । दिव्याम्बरधरां देवीं खड्गखेटकधारिणीम् ॥४॥
Verse
भारावतरणे पुण्ये ये स्मरन्ति सदा शिवाम् । तान् वै तारयसे पापात्पङ्के गामिव दुर्बलाम् ॥५॥
Verse
स्तोतुं प्रचक्रमे भूयो विविधैः स्तोत्रसम्भवैः । आमन्त्र्य दर्शनाकाङ्क्षी राजा देवीं सहानुजः ॥६॥
Verse
नमोऽस्तु वरदे कृष्णे कुमारि ब्रह्मचारिणि । बालार्कसदृशाकारे पूर्णचन्द्रनिभानने ॥७॥
Verse
चतुर्भुजे चतुर्वक्त्रे पीनश्रोणिपयोधरे । मयूरपिच्छवलये केयूराङ्गदधारिणि ॥८॥
Verse
भासि देवि यथा पद्मा नारायणपरिग्रहः । स्वरूपं ब्रह्मचर्यं च विशदं तव खेचरि ॥९॥
Verse
कृष्णच्छविसमा कृष्णा सङ्कर्षणसमानना । बिभ्रती विपुलौ बाहू शक्रध्वजसमुच्छ्रयौ ॥१०॥
Verse
पात्री च पङ्कजी घण्टी स्त्री विशुद्धा च या भुवि । पाशं धनुर्महाचक्रं विविधान्यायुधानि च ॥११॥
Verse
कुण्डलाभ्यां सुपूर्णाभ्यां कर्णाभ्यां च विभूषिता । चन्द्रविस्पर्धिना देवि मुखेन त्वं विराजसे ॥१२॥
Verse
मुकुटेन विचित्रेण केशबन्धेन शोभिना । भुजङ्गाभोगवासेन श्रोणिसूत्रेण राजता ॥१३॥
Verse
विभ्राजसे चाबद्धेन भोगेनेवेह मन्दरः । ध्वजेन शिखिपिच्छानामुच्छ्रितेन विराजसे ॥१४॥
Verse
कौमारं व्रतमास्थाय त्रिदिवं पावितं त्वया । तेन त्वं स्तूयसे देवि त्रिदशैः पूज्यसेऽपि च ॥१५॥
Verse
त्रैलोक्यरक्षणार्थाय महिषासुरनाशिनि । प्रसन्ना मे सुरश्रेष्ठे दयां कुरु शिवा भव ॥१६॥
Verse
जया त्वं विजया चैव सङ्ग्रामे च जयप्रदा । ममापि विजयं देहि वरदा त्वं च साम्प्रतम् ॥१७॥
Verse
विन्ध्ये चैव नगश्रेष्ठे तव स्थानं हि शाश्वतम् । कालि कालि महाकालि शीधुमांसपशुप्रिये ॥१८॥
Verse
कृतानुयात्रा भूतैस्त्वं वरदा कामचारिणी । भारावतारे ये च त्वां संस्मरिष्यन्ति मानवाः ॥१९॥
Verse
प्रणमन्ति च ये त्वां हि प्रभाते तु नरा भुवि । न तेषां दुर्लभं किञ्चित् पुत्रतो धनतोऽपि वा ॥२०॥
Verse
दुर्गात् तारयसे दुर्गे तत् त्वं दुर्गा स्मृता जनैः । कान्तारेष्ववसन्नानां मग्नानां च महार्णवे । दस्युभिर्वा निरुद्धानां त्वं गतिः परमा नृणाम् ॥२१॥
Verse
जलप्रतरणे चैव कान्तारेष्वटवीषु च । ये स्मरन्ति महादेवि न च सीदन्ति ते नराः ॥२२॥
Verse
त्वं कीर्तिः श्रीर्धृतिः सिद्धिर्ह्रीर्विद्या सन्ततिर्मतिः । सन्ध्या रात्रिः प्रभा निद्रा ज्योत्स्ना कान्तिः क्षमा दया ॥२३॥
Verse
नृणां च बन्धनं मोहं पुत्रनाशं धनक्षयम् । व्याधिं मृत्युं भयं चैव पूजिता नाशयिष्यसि ॥२४॥
Verse
सोऽहं राज्यात् परिभ्रष्टः शरणं त्वां प्रपन्नवान् । प्रणतश्च यथा मूर्ध्ना तव देवि सुरेश्वरि ॥२५॥
Verse
त्राहि मां पद्मपत्राक्षि सत्ये सत्या भवस्व नः । शरणं भव मे दुर्गे शरण्ये भक्तवत्सले ॥२६॥
Verse
एवं स्तुता हि सा देवी दर्शयामास पाण्डवम् । उपगम्य तु राजानमिदं वचनमब्रवीत् ॥२७॥
Verse
शृणु राजन् महाबाहो मदीयं वचनं प्रभो । भविष्यत्यचिरादेव सङ्ग्रामे विजयस्तव ॥२८॥
Verse
मम प्रसादान्निर्जित्य हत्वा कौरववाहिनीम् । राज्यं निष्कण्टकं कृत्वा भोक्ष्यसे मेदिनीं पुनः ॥२९॥
Verse
भ्रातृभिः सहितो राजन् प्रीतिं प्राप्स्यसि पुष्कलाम् । मत्प्रसादाच्च ते सौख्यमारोग्यं च भविष्यति ॥३०॥
Verse
ये च सङ्कीर्तयिष्यन्ति लोके विगतकल्मषाः । तेषां तुष्टा प्रदास्यामि राज्यमायुर्वपुः सुतम् ॥३१॥
Verse
प्रवासे नगरे वाऽपि सङ्ग्रामे शत्रुसङ्कटे । अटव्यां दुर्गकान्तारे सागरे गहने गिरौ ॥३२॥
Verse
ये स्मरिष्यन्ति मां राजन् यथाऽहं भवता स्मृता । न तेषां दुर्लभं किञ्चिदस्मिन् लोके भविष्यति ॥३३॥
Verse
इदं स्तोत्रवरं भक्त्या शृणुयाद् वा पठेत वा । तस्य सर्वाणि कार्याणि सिद्धिं यास्यन्ति पाण्डवाः ॥३४॥
Verse
मत्प्रसादाच्च वः सर्वान् विराटनगरे स्थितान् । न प्रज्ञास्यन्ति कुरवो नरा वा तन्निवासिनः ॥३५॥
Verse
इत्युक्त्वा वरदा देवी युधिष्ठिरमरिन्दमम् । रक्षां कृत्वा च पाण्डूनां तत्रैवान्तरधीयत ॥३६॥
Verse
॥इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि अष्टमोऽध्यायः॥
