sahasranAma
śrī hanumāna sahastranāmastotram
श्री हनुमान सहस्त्रनामस्तोत्रम्
Verse
श्री हनुमंत सहस्त्रनामस्तोत्रम् ध्यानम् अतुलितबलधामं हेमशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् । सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥* स्तोत्रम् श्रीरामचन्द्र उवाच हनुमाञ्श्रीप्रदो वायुपुत्रो रुद्रोऽनघोऽजरः । अमृत्युर्वीरवीरश्च ग्रामवासो जनाश्रयः ॥१॥
Verse
धनदो निर्गुणोऽकायो वीरो निधिपतिर्मुनिः । पिङ्गक्षो वरदो वाग्मी सीताशोकविनाशनः ॥२॥
Verse
शिवः सर्वः परोऽव्यक्तो व्यक्ताव्यक्तो रसाधनः । पिङ्गकेशः पिङ्गरोमा श्रुतिगम्य सनातनः ॥३॥
Verse
अनादिर्भवान देवो विश्वहेतुर्निरामयः । आरोग्यकर्ता विश्वेशो विश्वनाथो हरीश्वरः ॥४॥
Verse
भर्गो रामो रामभक्तः कल्याणप्रकृतिः स्थिरः । विश्वम्भरो विश्वमूर्तिर्विश्वाकारोऽथ विश्वपः ॥५॥
Verse
विश्वात्मा विश्वसेव्योऽथ विश्वो विश्वहरो रविः । वि्श्वचेष्टो विश्वगम्यो विश्वध्येयः कलाधरः ॥६॥
Verse
प्लवङ्गमः कपिश्रेष्ठो ज्येष्ठो वैद्यो वनेचरः । बालो वृद्धो युवा तत्त्वं तत्त्वगम्यः सखा ह्राजः ॥७॥
Verse
अञ्जनासूनुरव्यग्रो ग्रामख्यातो धराधरः । भूर्भुवःस्वर्महर्लोको जनलोकस्तपोऽव्ययः ॥८॥
Verse
सत्यमोङ्कारगम्यश्च प्रववो व्यापकोऽमलः । शिवधर्मप्रतिष्ठाता रामेष्टः फाल्गुनप्रियः ॥९॥
Verse
गोष्पदीकृतवारीशः पूर्णकामो धरापतिः । रक्षोघ्नोः पुण्डरीकाक्षः शरणागतवत्सलः ॥१०॥
Verse
जानकीप्राणदाता च रक्षःप्राणापहारकः । पूर्णः सत्यः पीतवासा दिवाकरसमप्रभः ॥११॥
Verse
देवोद्यानविहारी च देवताभयभञ्जनः । भक्तोदयो भक्तलब्धो भक्तपालनतत्परः ॥१२॥
Verse
द्रोणहर्ता शक्तिनेता शक्तिराक्षसमारकः । अक्षघ्नो रामदूतश्च शाकिनीजीवहारकः ॥१३॥
Verse
बुबुकारहतारातिर्गर्वपर्वतमर्दनः । हेतुस्त्वहेतुः प्रांशुश्च विश्वभर्ता जगद्गुरुः ॥१४॥
Verse
जगन्नेता जगन्नाथो जगदीशो जनेश्वरः । जगद्धितो हरिः श्रोशो गरुडस्मयभञ्जनः ॥१५॥
Verse
पार्थध्वजो वायुपुत्रोऽमितपुच्छोऽमितविक्रमः । ब्रह्मपुच्छः परब्रह्मपुच्छो रामेष्टकारकः ॥१६॥
Verse
सुग्रीवादियुतो ज्ञानी वानरो वानरेश्वरः । कल्पस्थायी चिरञ्जीवी तपनश्च सदाशिवः ॥१७॥
Verse
सन्नातिः सद्गतिर्भुक्तिमुक्तिदः कीर्तिदायकः । कीर्तिः कीर्तिप्रदश्चैव समुद्रः श्रीपदः शिवः ॥१८॥
Verse
भक्तोदयो भक्तगम्यो भक्तभाग्यप्रदायकः । उदधिक्रमणो देवः संसारभयनाशनः ॥१९॥
Verse
वार्धिबन्धनकृद विश्वजेता विश्वप्रतिष्ठितः । लङ्कारिः कालपुरुषो लङ्केशगृहभञ्जकः ॥२०॥
Verse
भूतावासो वासुदेवो वसुस्त्रिभुवनेश्वरः । श्रीरामरूपः कृष्णस्तु लङ्काप्रासादभञ्जकः ॥२१॥
Verse
कृष्णः कृष्णस्तुतः शान्तः शान्तिदो विश्वपावनः । विश्वभोक्ताथ मारघ्नो ब्रह्मचारी जितेन्द्रियः ॥२२॥
Verse
ऊर्ध्वगो लाङ्गुली माली लाङ्गूलाहतराक्षसः । समीरतनुजो वीरो वीरतारी जयप्रदः ॥२३॥
Verse
जगन्मङ्गलदः पुण्यः पुण्यश्रवणकीर्तनः । पुण्यकीर्तिः पुण्यगतिर्जगत्पावनपावनः ॥२४॥
Verse
देवेशो जितमारोऽथ रामभक्तिविधायकः । ध्याता ध्येयो लयः साक्षी चेता चैतन्यविग्रहः ॥२५॥
Verse
ज्ञानदः प्राणदः प्राणो जगत्प्राण समीरणः । विभीषणप्रियः शूरः पिप्पलाश्रयसिद्धिदः ॥२६॥
Verse
सिद्धः सिद्धश्रयः कालो महोक्षः कालजान्तकः । लङ्केशनिधनस्थायी लड्कादाहक ईश्र्वरः ॥२७॥
Verse
चन्द्रसूर्यग्निनेत्रश्च कालाग्निः प्रलयान्तकः । कपिलः कपिशः पुण्यराशिर्द्वादशराशिगः ॥२८॥
Verse
सर्वाश्रयोऽप्रमेयात्मा रेवत्यादिनिवारकः । लक्ष्मणप्राणदाता च सीताजीवनहेतुकः ॥२९॥
Verse
रामध्येयो हृषीकेशी विष्णुभक्त जटी बली । देवारिदर्पहा होता धाता कर्ता जगत्प्रभुः ॥३०॥
Verse
नगरग्रामपालश्च शुद्धो बुद्धो निरत्रपः । निरञ्जनो निर्विकल्पो गुणातीतो भयंकरः ॥३१॥
Verse
हनुमांश्च दुराराध्यस्तपःसाध्यो महेश्वरः । जानकीधनशोकोत्थतापहर्ता परात्परः ॥३२॥
Verse
वाड्मयः सदसद्रूपः कारणं प्रकृतेः परः । भाग्यदो निर्मलो नेता पुच्छलङ्काविदाहकः ॥३३॥
Verse
पुच्छबद्धयातुधानो यातुधानरिपुप्रियः । छायापहारी भूतेशो लोकेशः सद्गतिप्रदः ॥३४॥
Verse
प्लवङ्गमेश्वरः क्रोधः क्रोधसंरक्तलोचनः । सौम्यो गुरुः काव्यकर्ता भक्तानां च वरप्रदः ॥३५॥
Verse
भक्तानुकम्पी विश्वेशः पुरुहूतः पुरंदरः । क्रोधहर्ता तमोहर्ता भक्ताभयवरप्रदः ॥३६॥
Verse
अग्निर्विभावसुर्भास्वान् यमो निऋतिरेव च । वरुणो वायुगतिमान् वायुः कौबेर ईश्वरः ॥३७॥
Verse
रविश्चन्द्रः कुजः सौम्यो गुरुः काव्यः शनैश्चरः । राहुः केतुर्मरुद्धोता दाता हर्ता समीरजः ॥३८॥
Verse
मशकीकृतदेवारिदैत्यारिर्मधुसूदनः । कामः कपिः कामपालः कपिलो विश्वजीवन ॥३९॥
Verse
भागीरथीपदाम्भोजः सेतुबन्धविशारदः । स्वाहा स्वधा हविः कव्यं हव्यवाहप्रकाशकः ॥४०॥
Verse
स्वप्रकाशो महावीरो लघुरूर्जितविक्रमः । उड्डीनोड्डीनगतिमान् सद्गतिः पुरुषोत्तमः ॥४१॥
Verse
जगदात्मा जगद्योनिर्जगदन्तो ह्यनन्तकः । विपाप्मा निष्कलङ्कोऽथ महान् महादहंकृतिः ॥४२॥
Verse
खं वायुः पृथिवी चापो वह्निर्दिक्पाल एव च । क्षेत्रज्ञः क्षेत्रहर्ता च पल्वलीकृतसागरः ॥४३॥
Verse
हिरण्मयः पुराणश्च खेचरो भूचरोऽमरः । हिरण्मयगर्भः सूत्रात्मा राजराजो विशांपतिः ॥४४॥
Verse
वेदान्तवेद्य उद्गीथो वेदवेदाङ्गपारगः । प्रतिग्रामस्थितिः सद्यःस्फूर्तिदाता गुणाकरः ॥४५॥
Verse
नक्षत्रमाली भूतात्मा सुरभिः कल्पपादपः । चिन्तामणिर्गुणनिधिः प्रजाधारो ह्यनुत्तमः ॥४६॥
Verse
पुण्यश्लोकः पुरारातिर्ज्योतिष्माञ्शर्वरीपतिः । किलकिलारावसंत्रस्तभूतप्रेतपिशाचकः ॥४७॥
Verse
ऋणत्रयहरः सूक्ष्मः स्थूलः सर्वगतिः पुमान् । अपस्मारहरः स्मर्ता श्रुतिर्गाथा स्मृतिर्मनुः ॥४८॥
Verse
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं यतीश्वरः । नादरूपः परं ब्रह्म ब्रह्म ब्रह्मपुरातनः ॥४९॥
Verse
एकोऽनेको जनः शुक्लः स्वयंज्योतिरनाकुलः । ज्योतिर्ज्योतिरनादिश्च सात्त्विको राजसस्तमः ॥५०॥
Verse
तमोहर्ता निरलम्बो निराकारी गुणाकरः । गुणाश्रयो गुणमयो बृहत्कर्मा बृहद्यशाः ॥५१॥
Verse
बृहद्धनुर्बृहत्पादो बृहन्मूर्धा बृहत्स्वनः । बृहत्कर्णो बृहन्नासो बृहद्बाहुर्बृहत्तनुः ॥५२॥
Verse
बृहज्जानुर्बृहत्कार्यो बृहत्पुच्छो बृहत्करः । बृहद्रतिर्बृहत्सेव्यो बृहल्लोकफलप्रदः ॥५३॥
Verse
बृहच्छक्तिर्बृहद्वाञ्छाफलदो बृहदीश्वरः । बृहल्लोकनुतो द्रष्टा विद्यादाता जगद्गुरुः ॥५४॥
Verse
देवाचार्यः सत्यवादी ब्रह्मवादी कलाधरः । सप्तपातालगामी च मलयाचलसंश्रयः ॥५५॥
Verse
उत्तराशास्थितः श्रीदो दिव्यौषधिवशः खगः । शाखामृगः कपीन्द्रोऽथ पुराणश्रुतिचञ्चुरः ॥५६॥
Verse
चतुरब्राह्मणो योगी योगगम्यः परावरः । अनादिनिधनो व्यासो वैकुण्ठः पृथिवीपतिः ॥५७॥
Verse
अपराजितो जितारातिः सदानन्दो दयायुतः । गोपालो गोपतिर्गोप्ता कलिकालपराशनः ॥५८॥
Verse
मनोवेगी सदायोगी संसारभयनाशनः । तत्त्वदाताथ तत्त्वज्ञस्तत्त्वं तत्त्वप्रकाशकः ॥५९॥
Verse
शुद्धो बुद्धो नित्यमुक्तो भक्तराजो जयद्रथः । प्रलयोऽमितमायश्च मायातीतो विमत्सरः ॥६०॥
Verse
मायाभर्जितरक्षश्च मायानिर्मितविष्टपः । मायाश्रयश्च निर्लेपो मायानिर्वर्तकः सुखम् ॥६१॥
Verse
सुखी सुखप्रदो नागो महेशकृतसंस्तवः । महेश्वरः सत्यसंधः शरभः कलिपावनः ॥६२॥
Verse
सहस्त्रकन्धरबलविध्वंसनविचक्षणः । सहस्त्रबाहुः सहजो द्विबाहुर्द्विभुजोऽमरः ॥६३॥
Verse
चतुर्भुजो दशभुजो हयग्रीवः खगाननः । कपिवक्त्रः कपिपतिर्नरसिंहो महाद्युतिः ॥६४॥
Verse
भीषणो भावगो वन्घो वराहो वायुरूपधृक् । लक्ष्मणप्राणदाता च पराजितदशाननः ॥६५॥
Verse
पारिजातनिवासी च वटर्वचनकोविदः । सुरसास्यविनिर्मुक्तः सिंहिकाप्राणहारकः ॥६६॥
Verse
लङ्कालङ्कारविध्वंसी वृषदंशकरूपधृक् । रात्रिसंचारकुशलो रात्रिंचरगृहग्निदः ॥६७॥
Verse
किङ्करान्तकरो जम्बुमालिहन्तोगुरूपधृक् । आकाशचारी हरिगो मेघनादरणोत्सुकः ॥६८॥
Verse
मेघगम्भीरनिनदो महारावनकुलात्नकः । कालनेमिप्रानहारी मकरीशापमोक्षदः ॥६९॥
Verse
रसो रसज्ञः सम्मानो रूपं चक्षुः श्रुतिर्वचः । घ्राणो गन्धः स्पर्शनं च स्पर्शोऽहङ्कारमानगः ॥७०॥
Verse
नेतिनेतीतिगम्यश्च वैकुण्ठभजनप्रियः । गिरीशो गिरिजाकान्तो दुर्वासाः कविरङ्गिराः ॥७१॥
Verse
भृगुर्वसिष्ठश्च्यवनो नारदस्तुम्बरोऽमलः । विश्वक्षेत्रो विश्वबीजो विश्वनेत्रश्च विश्वपः ॥७२॥
Verse
याजको यजमानश्च पावकः पितरस्तथा । श्रद्धा बुद्धिः क्षमा तन्द्रा मन्त्रो मन्त्रयिता स्वरः ॥७३॥
Verse
राजेन्द्रो भूपती रुण्डमाली संसारसारथिः । नित्यसम्पूर्णकामश्च भक्तकामधुगुत्तमः ॥७४॥
Verse
गणपः केशवो भ्राता पिता माता च मारुतिः । सहस्त्रमूर्द्धानेकास्यः सहस्त्राक्षः सहस्त्रपात् ॥७५॥
Verse
कामजित् कामदहनः कामः कामफलप्रदः । मुद्रापहारी रक्षाघ्नः क्षितिभारहरो बलः ॥७६॥
Verse
नखदंष्ट्रायुधो विष्णुर्भक्ताभयवरप्रदः । दर्पहा दर्पदो दंष्ट्राशतमूर्तिरमूर्तिमान् ॥७७॥
Verse
महानिधिर्महाभागो महाभर्गो महर्द्धिदः । महाकारो महायोगी महातेजा महाद्युतिः ॥७८॥
Verse
महासनो महानादो महामन्त्रो महामतिः । महागमो महोदारो महादेवात्मको विभुः ॥७९॥
Verse
रौद्रकर्मा क्रूरकर्मा रत्ननाभः कृतागमः । अम्भोधिलङ्घनः सिंहः सत्यधर्मप्रमोदनः ॥८०॥
Verse
जितामित्रो जयः सोमो विजयो वायुनन्दनः । जीवदाता सहस्त्रांशुर्मुकुन्दो भूरिदक्षिणः ॥८१॥
Verse
सिद्धार्थः सिद्धिदः सिद्धसङ्कल्पः सिद्धिहेतुकः । सप्तपातालचरणः सप्तर्षिगणावन्दितः ॥८२॥
Verse
सप्ताब्धिलङ्घनो वीरः सप्तद्वीपोरुमण्डलः । सप्ताङ्गराज्यसुखदः सप्तमातृनिषेवितः ॥८३॥
Verse
सप्तस्वर्लोकमुकुटः सप्तहोता स्वराश्रयः । सप्तच्छन्दोनिधिः सप्तच्छन्दः सप्तजनाश्रयः ॥८४॥
Verse
सप्तसामोपगीतश्च सप्तपातालसंश्रयः । मेधादः कीर्तिदः शोकहारी दौर्भाग्यनाशनः ॥८५॥
Verse
सर्वरक्षाकारो गर्भदोषहा पुत्रपौत्रदः । प्रतिवादिमुखस्तम्भो रुष्टचित्तप्रसादनः ॥८६॥
Verse
पराभिचारशमनो दुःखहा बन्धमोक्षदः । नवद्वारपुराधारो नवद्वारनिकेतनः ॥८७॥
Verse
नरनारायणस्तुत्यो नवनाथमहेश्वरः । मेखली कवची खड्गी भ्राजिष्णुर्जिष्णुसारथिः ॥८८॥
Verse
बहुयोजनविस्तीर्णपुच्छः पुच्छहतासुरः । दुष्टग्रहनिहन्ता च पिशाचग्रहघातकः ॥८९॥
Verse
बालग्रहविनाशी च धर्मनेता कृपाकरः । उग्रकृत्यश्चोग्रवेग उग्रनेत्रः शतक्रतुः ॥९०॥
Verse
शतमन्युनुतः स्तुत्यः स्तुतिः स्तोता महाबलः । समग्रगुणशाली च व्यग्रो रक्षोविनाशकः ॥९१॥
Verse
रक्षोऽग्निदाहो ब्रह्मेशः श्रीधरो भक्तवत्सलः । मेघनादो मेघरूपो मेघवृष्टिनिवारकः ॥९२॥
Verse
मेघजीवनहेतुश्चु मेघश्यामः परात्मकः । समीरतनयो योद्धा नृत्यविद्याविशारदः ॥९३॥
Verse
अमोघोऽमोघदृष्टीश्च इष्टदोऽरिष्टनाशनः । अर्थोऽनर्थापहारी च समर्थो रामसेवकः ॥९४॥
Verse
अर्थिवन्द्योऽसुरारातिः पुण्डरीकाक्ष आत्मभूः । संकर्षणो विशुद्धात्मा विद्याराशिः सुरेश्वरः ॥९५॥
Verse
अचलोद्धारको नित्यः सेतुकृद् रामसारथिः । आनन्दः परमानन्दो मत्स्यः कूर्मो निराश्रयः ॥९६॥
Verse
वाराहो नारसिंहश्च वामनो जमदग्निजः । रामः कृष्णः शिवो बुद्धः कल्की रामाश्रयो हरिः ॥९७॥
Verse
नन्दी भृङ्गी च चण्डी च गणेशो गणसेवितः । कर्माध्यक्षः सुराध्यक्षो विश्रामो जगतीपतिः ॥९८॥
Verse
जगन्नाथः कपीशश्च सर्वावासः सदाश्रयः । सुग्रीवादिस्तुतो दान्तः सर्वकार्मा प्लवङ्गमः ॥९९॥
Verse
नखदारितरक्षाश्च नखयुद्धविशारदः । कुशलः सुधनः शेषो वासुकिस्तक्षकस्तथा ॥१००॥
Verse
स्वर्णवर्णो बलाढ्यश्च पुरुजेताघनाशनः । कैवल्यरूपः कैवल्यो गरुडः पन्नगोरगः ॥१०१॥
Verse
किलकिलरावहतारातिर्गर्वपर्वतभेदनः । वज्राङ्गो वज्रदंष्ट्रश्च भक्तवज्रनिवारकः ॥१०२॥
Verse
नखायुधो मणिग्रीवो ज्वालामाली च भास्करः । प्रौढप्रतापस्तपनो भक्ततापनिवारकः ॥१०३॥
Verse
शरणं जीवनं भोक्ता नानाचेष्टो ह्यचञ्चलः । स्वस्तिमान् स्वस्तिदो दुःखशातनः पवनात्मजः ॥१०४॥
Verse
पावनः पवनः कान्तो भक्तागःसहनो बली । मेघनादरिपुर्मेघनादसंहतराक्षसः ॥१०५॥
Verse
क्षरोऽक्षरी विनीतात्मा वानरेशः सतां गतिः । श्रीकण्ठः शितिकण्ठश्च सहायः सहनायकः ॥१०६॥
Verse
अस्थूलस्त्वनणुर्भर्गो दिव्यः संसृतिनाशनः । अध्यात्माविद्यासारश्च ह्याध्यात्मदुशलः सुधीः ॥१०७॥
Verse
अकल्मषः सत्यहेतुः सत्यदः सत्यगोचरः । सत्यगर्भः सत्यरूपः सत्यः सत्यपराक्रमः ॥१०८॥
Verse
अञ्जनाप्राणलिङ्गश्च वायुवंशोद्भवः शुभः । भद्ररूपो रुद्ररूपः सुरूपश्चित्ररूपधृक् ॥१०९॥
Verse
मैनाकवन्दितः सूक्ष्मदर्शनो विजयो जयः । कान्तदिङ्मण्डलो रुद्रः प्रकटीकृतविक्रमः ॥११०॥
Verse
कम्बुकण्ठः प्रसन्नात्मा ह्रस्वनासो वृकोदरः । लम्बौष्ठः कुण्डली चित्रमाली योगविंदा वरः ॥१११॥
Verse
विपश्चित्कविरानन्दविग्रहोऽनल्पशासनः । फाल्गुनीसूनुरव्यग्रो योगात्मा योगतत्परः ॥११२॥
Verse
योगविद् योगकर्ता च योगयोनिर्दिगम्बरः । अकारादिहकारान्तवर्णनिर्मितविग्रहः ॥११३॥
Verse
उलूखलमुखः सिद्धसंस्तुतः प्रमथेश्वरः । श्लिष्टजङ्घः श्लिष्टजानुः श्लिष्टपाणिः शिखाधरः ॥११४॥
Verse
सुशर्मामितशर्मा च नारायणपरायणः । जिष्णुर्भविष्णू रोचिष्णुर्ग्रसिष्णुः स्थाणुरेव च ॥११५॥
Verse
हरिरुद्रानुसेकोऽथ कम्पनो भूमिकम्पनः । गुणप्रवाहः सूत्रात्मा वीतरागस्तुतिप्रियः ॥११६॥
Verse
नागकन्याभध्वंसी रुक्मवर्णः कपालभृत् । अनाकुलो भवोपायोऽनपायो वेदपारगः ॥११७॥
Verse
अक्षरः पुरुषो लोकनाथ ऋक्षप्रभुर्दृढः । अष्टाङ्गयोगफलभुक् सत्यसंधः पुरुष्टुतः ॥११८॥
Verse
श्मशानस्थाननिलयः प्रेतविद्रावनक्षमः । पञ्चाक्षरपरः पञ्चमातृको रञ्जनध्वजः ॥११९॥
Verse
योगिनीवृन्दवन्द्यश्रीः शत्रुघ्नोऽनन्तविक्रमः । ब्रह्मचारीन्द्रियरिपुर्धृतदण्डो दशात्मकः ॥१२०॥
Verse
अप्रपञ्चः सदाचारः शूरसेनाविदारकः । वृद्धः प्रमोद आनन्दः सप्तद्वीपपतिन्धरः ॥१२१॥
Verse
नवद्वारपुराधारः प्रत्यग्रः सामगायकः । षट्चक्रधाम स्वर्लोकाभयकृन्मानदो मदः ॥१२२॥
Verse
सर्ववश्यकरः शक्तिरनन्तोऽनन्तमङ्गलः । अष्टमूर्तिर्नयोपेतो विरूपः सुरसुन्दरः ॥१२३॥
Verse
धूमकेतुर्महाकेतुः सत्यकेतुर्महारथः । नन्दिप्रियः स्वतन्त्रश्च मेखली डमरुप्रियः ॥१२४॥
Verse
लौहाङ्गः सर्वविद्धन्वी खण्डलः शर्व ईश्वरः । फलभुक् फलहस्तश्च सर्वकर्मफलप्रदः ॥१२५॥
Verse
धर्माध्यक्षो धर्मपालो धर्मो धर्मप्रदोऽर्थदः । पञ्चविंशतितत्त्वज्ञस्तारको ब्रह्मतत्परः ॥१२६॥
Verse
त्रिमार्गवसतिर्भीमः सर्वदुःखनिबर्हणः । ऊर्जस्वान् निष्कलः शूली मौलिर्गर्जन्निशाचारः ॥१२७॥
Verse
रक्ताम्बरधरो रक्तो रक्तमाल्यो विभूषणः । वनमाली शुभाङ्गश्च श्वेतः श्वेताम्बरो युवा ॥१२८॥
Verse
जयोऽजयपरीवारः सहस्त्रवदनः कपिः । शाकिनीडाकिनीयक्षरक्षोभूतप्रभञ्जकः ॥१२९॥
Verse
सद्योजातः कामगतिर्ज्ञानमूर्तिर्यशस्करः । शम्भुतेजाः सार्वभौमो विष्णुभक्तः प्लवङ्गमः ॥१३०॥
Verse
चतुर्नवतिमन्त्रज्ञः पौलस्त्यबलदर्पहा । सर्वलक्ष्मीप्रदः श्रीमानङ्गदप्रिय ईडितः ॥१३१॥
Verse
स्मृतिबीजं सुरेशानः संसारभयनाशनः । उत्तमः श्रीपरीवारः श्रितो रुद्रश्च कामधुक् ॥१३२॥
Verse
॥
Verse
इति मन्त्रमहार्णवे पूर्वखण्डे नवमतरङ्गे श्रीरामकृतं श्रीहनुमत्सहस्त्रनामस्तोत्रं सम्पूर्णम् ॥
