Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

āpaduddhāraka-dvādaśamukha-hanumān-stotram

आपदुद्धारक-द्वादशमुख-हनुमान्-स्तोत्रम्

Verse

ॐ अस्य श्री-आपदुद्धारक-द्वादशमुख-हनुमान् स्तोत्र-महामन्त्रस्य विभीषण ऋषिः। अनुष्टुप् छन्दः। श्री-द्वादशमुख-प्रचण्ड-हनुमान् देवता। मारुतात्मज इति बीजम्। अञ्जनासूनुरिति शक्तिः। वायुपुत्रेति कीलकम्। श्रीहनुमत्प्रसादसिद्धिद्वारा सर्वापन्निवारणार्थे जपे विनियोगः।

Verse

उष्ट्रारूढ-सुवर्चलासहचरन् सुग्रीवमित्राञ्जना- सूनो वायुकुमार केसरितनूजाक्षादिदैत्यान्तक । सीतशोकहराग्निनन्दन सुमित्रासम्भवप्राणद श्रीभीमाग्रज शम्भुपुत्र हनुमान् सूर्यास्य तुभ्यं नमः ॥

Verse

खड्गं खेटक-भिन्दिपाल-परशुं पाश-त्रिशूल-द्रुमान् चक्रं शङ्ख-गदा-फलाङ्कुश-सुधाकुम्भान् हलं पर्वतम् । टङ्कं पर्वतकार्मुकाहिडमरूनेतानि दिव्यायुधान् एवं विंशतिबाहुभिश्च दधतं ध्यायेद्धनूमत्प्रभुम् ॥

Verse

ॐ नमो भगवते तुभ्यं नमो मारुतसूनवे । नमः श्रीरामभक्ताय श्यामास्याय च ते नमः ॥१॥

Verse

नमो वानरवीराय सुग्रीवसख्यकारिणे । लङ्काविदाहकायाथ हेलासागरतारिणे ॥२॥

Verse

सीताशोकविनाशाय राममुद्राधराय च । रावणस्य कुलच्छेदकारिणे ते नमो नमः ॥३॥

Verse

मेघनादमखध्वंसकारिणे ते नमो नमः । अशोकवनविध्वंसकारिणे भयहारिणे ॥४॥

Verse

वायुपुत्राय वीराय आकाशोदरगामिने । वनपालशिरश्छेत्रे लङ्काप्रासादभञ्जिने ॥५॥

Verse

ज्वलत्कनकवर्णाय दीर्घलाङ्गूलधारिणे । सौमित्रिजयदात्रे च रामदूताय ते नमः ॥६॥

Verse

अक्षस्य वधकर्त्रे च ब्रह्मशक्तिनिवारिणे । लक्ष्मणाङ्गमहाशक्ति-घात-क्षत-विनाशिने ॥७॥

Verse

रक्षोघ्नाय रिपुघ्नाय भूतघ्नाय च ते नमः । ऋक्षवानरवीरौघ-प्राणदायक ते नमः ॥८॥

Verse

परसैन्यबलघ्नाय शस्त्रास्त्रविघनाय च । विषघ्नाय द्विषघ्नाय ज्वरघ्नाय च ते नमः ॥९॥

Verse

महाभयरिपुघ्नाय भक्तत्राणैककारिणे । परप्रेरितमन्त्राणां यन्त्राणां स्तम्भकारिणे ॥१०॥

Verse

पयः-पाषाण-तरण-कारणाय नमो नमः । बालार्कमण्डलग्रासकारिणे भवतारिणे ॥११॥

Verse

नखायुधाय भीमाय दन्तायुधधराय च । रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे ॥१२॥

Verse

प्रतिग्रामस्थितायाथ रक्षोभूतवधार्थिने । करालशैलशस्त्राय द्रुमशस्त्राय ते नमः ॥१३॥

Verse

बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च । विहङ्गमाय शर्वाय वज्रदेहाय ते नमः ॥१४॥

Verse

कौपीनवाससे तुभ्यं रामभक्तिरताय च । दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने ॥१५॥

Verse

कृत्या-क्षत-व्यथघ्नाय सर्वक्लेशहराय च । स्वाम्याज्ञा-पार्थसङ्ग्राम-सङ्ख्ये सञ्जयधारिणे ॥१६॥

Verse

भक्तानां दिव्यवादेषु सङ्ग्रामे जयदायिने । किलकिल्याबूबुरोच्चघोरशब्दकराय च ॥१७॥

Verse

सर्पाग्निव्याधिसंस्तम्भकारिणे वनचारिणे । सदा वनफलाहार-सत्तृप्ताय विशेषतः । महार्णव-शिला-बद्ध-सेतवे ते नमो नमः ॥१८॥

Verse

वादे विवादे सङ्ग्रामे भये घोरे महावने । सिंहव्याघ्रादि चौरेभ्यः स्तोत्रपाठाद् भयं न हि ॥१९॥

Verse

दिव्ये भूतभये व्याधौ गृहे स्थावरजङ्गमे । राजशस्त्रभये चोग्रबाधा ग्रहभयेषु च ॥२०॥

Verse

जले सर्वे महावृष्टौ दुर्भिक्षे प्राणसम्प्लवे । पठेत् स्तोत्रं प्रमुच्येत भयेभ्यः सर्वतो नरः । तस्य क्वापि भयं नास्ति हनुमत्स्तवपाठतः ॥२१॥

Verse

सर्वथा वै त्रिकालं च पठनीयमिमं स्तवम् । सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ॥२२॥

Verse

विनतायाः स्वमातुश्च दासीत्वस्य निवृत्तये । सुधार्णं यातुकामाय महापौरुषशालिने ॥२३॥

Verse

विभीषणकृतं स्तोत्रं तार्क्ष्येण समुदीरितम् । ये पठन्ति सदा भक्त्या सिद्धयस्तत्करे स्थिताः ॥२४॥

Verse

॥इति श्री-सुदर्शनसंहितायां श्री-विभीषणगरुडसंवादे श्री-विभीषणकृतम् आपदुद्धारक श्री-द्वादशमुख-हनुमान् स्तोत्रं सम्पूर्णम्॥

hanumān cālīsā
sundarahanumān mahāmantranāmastotram

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms