Preparing Your Space .

Settling the page into your current context.

GyanDweepBeta
HomeLearnLibrary
eGurukulsDiscoverTemplesPanchanga
Sign Up
Sign Up

stotrasangraha

sundarahanumān mahāmantranāmastotram

सुन्दरहनुमान् महामन्त्रनामस्तोत्रम्

Verse

हनुमान् अञ्जनासूनुर्वायुपुत्रो महाबलः । कपीन्द्रः पिङ्गलाक्षश्च लङ्काद्वीपभयङ्करः ॥१॥

Verse

प्रभञ्जनसुतो वीरः सीताशोकविनाशकः । अक्षहन्ता रामसखो रामकार्यधुरन्धरः ॥२॥

Verse

महौषधगिरेर्धारी वानरप्राणदायकः । वारीशतारकश्चैव मैनाकगिरिभञ्जनः ॥३॥

Verse

निरञ्जनो जितक्रोधः कदलीवनसंवृतः । ऊर्ध्वरेता महासत्त्वः सर्वमन्त्रप्रवर्तकः ॥४॥

Verse

महालिङ्गप्रतिष्ठाता बाष्पकृज्जपतान्तरः । शिवध्यानपरो नित्यं शिवपूजापरायणः ॥५॥

Verse

॥इति श्री-पराशरसंहितान्तर्गतं श्री-सुन्दरहनुमान् महामन्त्रनामस्तोत्रं सम्पूर्णम्॥

āpaduddhāraka-dvādaśamukha-hanumān-stotram
hanumat-pañcaratnam

सा विद्या या विमुक्तये

Built with Sankalpa at Gyaandweep

Gyaandweep

© 2022-2026 Granthajyoti Pvt Ltd.

Privacy & Terms