stotrasangraha
hanumat-pañcaratnam
हनुमत्-पञ्चरत्नम्
Verse
वीताखिल-विषयेच्छं जातानन्दाश्रु-पुलकमत्यच्छम् । सीतापति-दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥
Verse
तरुणारुण-मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् । सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम् ॥२॥
Verse
शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् । कम्बुगलमनिलदिष्टं बिम्ब-ज्वलितोष्ठमेकमवलम्बे ॥३॥
Verse
दूरीकृत-सीतार्तिः प्रकटीकृत-रामवैभव-स्फूर्तिः । दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥
Verse
वानर-निकराध्यक्षं दानव-कुल-कुमुद-रविकर-सदृशम् । दीन-जनावन-दीक्षं पवनतपः पाकपुञ्जमद्राक्षम् ॥५॥
Verse
एतत् पवनसुतस्य स्तोत्रं यः पठति पञ्चरत्नाख्यम् । चिरमिह निखिलान् भोगान् भुक्त्वा श्रीराम-भक्तिभाग् भवति ॥६॥
Verse
॥इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री-गोविन्द-भगवत्पूज्य-पाद-शिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्री-हनुमत्-पञ्चरत्नं सम्पूर्णम्॥
Verse
यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृत-मस्तकाञ्जलिम् । बाष्पवारिपरिपूर्ण-लोचनं मारुतिं नमत राक्षसान्तकम् ॥
Verse
उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥
Verse
बुद्धिर्बलं यशो धैर्यं निर्भयत्वम् अरोगता । अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद् भवेत् ॥
Verse
असाध्यसाधक स्वामिन् असाध्यं तव किं वद । रामदूत कृपसिन्धो मत्कार्यं साधय प्रभो ॥
